०३

आयुः पाहि प्रजां पाह्य् अमुष्य वीरतां पाहि ॥ इति सादयेद् यो ऽस्य प्रियः स्यात् तस्य शुक्रं वै प्रति राष्ट्रं मन्थिनं निरुद्धं मथ्यता इति ह्य् एतद् राष्ट्रम् आहुर् यन् निरुद्धं भवति यदि कामयेत यो बहिस् तं ग्रामे कुर्यां यो ग्रामे तं बहिर् इति ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो निरूहामि ॥ इति शुक्रपात्रं निरुह्य ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि सादयामि ॥ इति मन्थिपात्रं सादयेद् यो बहिस् तं ग्रामे करोति यो ग्रामे तं बहिर् आर्तं वा एतत् पात्रं यन् मन्थिपात्रं यञ् शुक्रपात्रं पुनः प्रयुज्यते तस्माद् इमे समावद्वीर्ये तस्माद् आभ्यां समावत् पश्यत्य् असौ वा आदित्यः शुक्रश् चन्द्रमा मन्थी यद् अपिधाय प्राञ्चा इतस् तस्माद् एतौ प्राञ्चौ यन्तौ न पश्यन्त्य् अथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस् तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति यद् अपिधाय प्राञ्चा इतस् तस्मात् पराङ् प्राणो ऽथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तु जुहुतस् तस्मात् पुनर् अपानो यद् अपिधाय प्राञ्चा इतस् तस्मात् पराञ्चो गर्भा धीयन्ते ऽथ यद् अनपिधाय प्रत्यञ्चौ तिष्ठन्तौ जुहुतस् तस्मात् प्रत्यञ्चः प्रजायन्ते चक्षुषी वै शुक्रामन्थिनौ नासिकोत्तरवेदिर् यद् अङ्गुष्ठाभ्याम् आक्रमेते चक्षुषी वा एतत् प्रधत्तो ऽथ यद् उपरिष्टाद् आक्रमेते तस्माद् इमे उपरिष्टाच् चक्षुषी तुथो ऽसि जनधाया देवास् त्वा शुक्रपाः प्रणयन्त्व् इति या अत्रीः प्रजास् तासाम् एष योनिस् ता एतम् अनुप्रजायन्ते तुथो ऽसि जनधाया देवास् त्वा मन्थिपाः प्रणयन्त्व् इति या आद्याः प्रजास् तासाम् एष योनिस् ता एतम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् च शुक्रम् अन्वारभन्ते तेजो वै शुक्रो ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अन्वारभन्त इन्द्रेण मन्युना युजेति शुक्रेण परियन्ति मन्युना वै युजेन्द्रो ऽसुरान् अवाबाधत मन्युना वा एतद् युजा यजमानो भ्रातृव्यम् अवबाधते सञ्जग्मानौ दिवा पृथिव्येत्य् अरत्नी सन्धत्त इमानि वा एतत् सन्धत्ते यत् पात्रे सन्दध्यातां नेदम् अन्तरा स्याद् अथ यद् अरत्नी सन्धत्तस् तस्माद् इदम् अन्तरा चक्षुषोर् विधृत्यै पुमांसं गर्भम् आधत्तं गवीन्योर् इति तद् अनु स्त्रीष्वो यजमानस्य गावो भवन्ति वीरं पत्नी जनयति शुक्रस्याधिष्ठानम् असि मन्थिनो ऽधिष्ठानम् असीति शकलौ प्रास्यतः समिद् वा एषैतयोर् अथो आहुतीनां प्रतिष्ठित्यै निरस्तः षण्डो निरस्तो मर्कः सह तेन यं द्विष्म इति शकलौ निरस्यत एतावांल् लोको यावद् उद्धतं यावान् एव लोकस् तस्माद् यजमानो भ्रातृव्यं निर्भजति श्रीणन्त्य् अन्यान्त् सोमान् नान्यांस् तत् सोमानां मिथुनं याञ् श्रीणन्ति तान् अनुवर्षति यान् न श्रीणन्ति तान् अनुवीध्रति दारुमयान्य् अन्यानि पात्राणि मृन्मयान्य् अन्यानि तत् पात्राणां मिथुनं यो वै सोमस्य च पात्राणां च मिथुनं वेद मिथुना एनं पशवा उपतिष्ठन्ते ॥म्स्_४,६।३॥

प्रजापतिर् वा आग्रायणो ये देवा दिव्य् एकादश स्थेत्य् एतावन्तो वै देवा यावन्त एव देवास् तेभ्यो गृह्यत आग्रायणं वै गृहीत्वा देवाः स्वर्गं लोकम् आयन्न् अपासुरा अभ्रंशन्त ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् आग्रायणं गृह्णीते भवत्य् आत्मना परास्य भ्रातृव्यो भवति य आनुजावरः स्यात् स आग्रायणाग्रान् ग्रहान् गृह्णीताग्रं ह्य् आग्रायणो यद्य् अभिचरेत् ॥
देवा : फ़्न् ⟨ देवास्
देवा : फ़्न् एमेन्देद्। एद्।: दवा।

विदद् यदि सरमा रुग्णम् अद्रेर् महि पाथः पूर्व्यं सध्र्यक् कः ।
अग्रं नयत् सुपद्य् अक्षराणाम् अछा रवं प्रहमा जानती गात् ॥
रुग्णम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।