०२

एकया च दशभिश् च स्वभूते द्वाभ्याम् इष्टये विंशत्या च तिसृभिश् च वहसे त्रिंशता च नियुद्भिर् वाय इह ता विमुञ्च ॥ इत्य् आह विमुक्त्या एवावगतं वा अध्वर्युपात्रं निरुद्धं प्रतिप्रस्थानं यदि कामयेत यो बहिस् तं ग्रामे कुर्यां यो ग्रामे तं बहिर् इति ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो निरूहामि ॥ इत्य् अध्वर्युपात्रं निरुह्य ॥ इदम् अहम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विशि सादयामि ॥ इति प्रातिप्रस्थानं सादयेद् यो बहिस् तं ग्रामे करोति यो ग्रामे तं बहिर् अध्वर्युपात्रं वै यजमानस्य पात्रं प्रतिप्रस्थानं भ्रातृव्यस्य यदि कामयेत समावद्वीर्यम् एनं भ्रातृव्येण कुर्याम् इति प्रबाहुग् गृह्णीयातां प्रबाहुक् सादयेतां प्रबाहुग् जुहुयातां समावद्वीर्यम् एवैनं भ्रातृव्येण करोत्य् अध्वर्युपात्रं वै पात्रं पापीयः प्रतिप्रस्थानं यदि कामयेत पापवसीयसं स्याद् इति पूर्वो गृह्णीयात् पूर्वः सादयेत् पूर्वो जुहुयाद् एतेन वै विपूजनः सौराकिः पापवसीयसं चकार तत् पापवसीयसम् एवैतेन करोति यज्ञस्य वै सृष्टस्य शिरो ऽछिद्यत तस्मै देवाः प्रायश्चित्तिम् ऐछन्न् अथ वा एतौ तर्हि देवानां भिषजा आस्ताम् अश्विना असोमपौ ता उपाधावन् यथा भिषजम् उपधावन्त्य् एवम् इदं यज्ञस्य शिरः प्रतिधत्तम् इति ता अब्रूतां भागो ना अस्त्व् इति वृणाथाम् इत्य् अब्रुवंस् ता अब्रूतां ग्रहं नौ गृह्णन्तु सोमपीथम् अश्नवावहा इति तद् वा अश्विनौ प्रत्यधत्तां तस्माद् आश्विनीभिर् अभिष्टुवन्त्य् अश्विनौ हि प्रत्यधत्तां तौ वै बहिष्पवमानेनैव पावयित्वा ताभ्यां पूताभ्यां यज्ञियाभ्यां भूताभ्यां ग्रहम् अगृह्णंस् तस्माद् बहिष्पवमाने स्तुत आश्विनौ गृह्येते तस्माद् ब्राह्मणेन बहिष्पवमानम् अभिसृप्यं पवित्रं हि तत् तस्माद् यं द्विष्यात् तं परिबाधेत तद् वै भेषजं त्रेधा विन्यदधुर् अग्नौ तृतीयं ब्राह्मणे तृतीयम् अप्सु तृतीयं तद् य एवं विद्वान् अग्नेर् अन्ते ब्राह्मणाय प्रोच्याप्सु भेषजं करोति समर्धुकं ह भवति यावद् धि भेषजं तत् क्रियते वास्तुहानि वा एतत् पात्राणि भवन्ति यद् ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति वैष्णव्य ऋचा पुनर् एत्य सम्मृशति विष्णुर् वै यज्ञो विष्णुनैवैनानि यज्ञेन स्वर्गं लोकं समारोहयति ॥म्स्_४,६।२॥

प्रजापतेर् वा एते चक्षुषी यञ् शुक्रामन्थिनव् असा आदित्यः शुक्रश् चन्द्रमा मन्थी तस्य वै प्रजापतेः सव्यं चक्षुर् अश्वयत् ततो ये स्तोका अवापद्यन्त तैर् इदं वर्षत्य् एकविंशतिर् वै ते ऽवपेदुस् तान् वायुर् अमुतो विसृजति प्रजानां कॢप्त्यै तस्य या कनीनिका परापतत् स यवो ऽभवद् यन् मन्थिनं सक्तुभिः श्रीणाति चक्षुर् एवास्य सम्भावयति मिथुनं वै सोमश् च सक्तवश् च यन् मन्थिनं सक्तुभिः श्रीणाति मिथुनत्वायार्तं वा एतत् पात्रं यन् मन्थिपात्रं यं द्विष्याद् ऋत्विजां तस्मै हरेद् आर्तिम् आर्छति षण्डामर्कौ वा असुराणां पुरोहिता आस्तां तान् देवा नाशक्नुवन् हन्तुं ब्राह्मणवन्तो ह्य् आसंस् तौ देवा अपाशासुर् उप ना आवर्तेथाम् इति ता अब्रूतां भागो ना अस्त्व् इति वृणाथाम् इत्य् अब्रुवंस् ता एतौ शुक्रामन्थिना अवृणातां ते देवा अमन्यन्त यद् इमा असुर्यौ सोमौ होष्यामस् तद् अन्व् असुरा आभविष्यन्ति यन् न होष्यामस् तद् अन्व् आभविष्यन्तीति ता अपनुद्याथेन्द्रायाजुहुवुस् तस्माद् एता अन्यदेवत्यौ गृह्येते अथेन्द्राय हूयेते अपनुत्तौ षण्डामर्कौ सह तेन यं द्विष्म इति षण्डामर्कयोर् एवैनं सहापनोदेनापनुदते ॥