०१

नवैते प्रातर् ग्रहा गृह्यन्त इमे वा एते गृह्यन्ते नव प्राणा आश्विनो दशमो गृह्यते व्यानो वा एष गृह्यते नाभिर् एव दशमो गृह्यते तृतीयो हूयते तृतीयो ह्य् अयं प्राणः प्राणानां सन्तत्यै सर्वे वा एते ग्रहाः स्तोत्रवन्तः शस्त्रवन्तो निदानवन्तो निदानवान् भवति य एवं वेद होता वा अद्य प्रातर् उपांशुम् अयजत् तेनैत उक्थवन्तो ऽथ यं होता तूष्णींशंसं शंसति तेनैवैत उक्थवन्तो नवैते प्रातर् ग्रहा गृह्यन्ते नवभिर् बहिष्पवमाने स्तुवते तैर् एते सामन्वन्तो हिङ्कारेणाश्विनः सामन्वान् ऐन्द्रवायवेणैन्द्रवायवो मैत्रावरुणेन मैत्रावरुण ऐन्द्रेण शुक्रामन्थिनौ वैश्वदेवेनाग्रयण उक्थायोक्थ्यो गृह्यत उक्थाय ध्रुवः सन्तत्या ऐन्द्राग्नः सन्तत्यै म्रुत्वतीया अध्वर्युर् जुहोति होता वषट्करोति प्राणान् वा एतत् प्रधत्तो येन मन्त्रेणाध्वर्युः प्रयछति तेन होता प्रतिगृह्णाति प्राणानां गोपीथाय प्रजापतिर् वै स्वयं होतासीत् सो ऽताम्यत् तं देवा द्विदेवत्यैर् अभ्यधावन् प्राणा वै द्विदेवत्या यद् अध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारम् अभ्याद्रवति प्राणैर् वा एतद् धोतारम् अभिधिनोति वषट्कारेवषट्कारे वै होता प्राणस्यान्तं गछति प्राणा वै द्विदेवत्या यद् अध्वर्युर् द्विदेवत्यान् हुत्वा क्षिप्रं होतारम् अभ्याद्रवति प्राणैर् वा एतद् धोतारम् अभिधिनोति प्राणा वै द्विदेवत्याः पशवा इडा यद् द्विदेवत्यान् अभक्षयित्वेडाम् उपह्वयेत पशुभिः प्राणान् अन्तरियाद् अथ यद् द्विदेवत्यान् भक्षयित्वेडाम् उपह्वयते प्राणान् वा एतद् आत्मन् धित्वाथ पशून् उपह्वयत इन्द्रियं वै सोमः पशव इन्द्रियं यत् सोमं भक्षयतीन्द्रियम् एवात्मन्धत्ते सर्वत आश्विनं परिहारं भक्षयति तस्मात् सर्वा दिशः शृणोति ॥म्स्_४,६।१॥
प्रातर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यद् वै पात्रं रिक्तम् अनुन्मुक्तं तद् अनु रक्षांसि यज्ञम् अवयन्ति यद् ऐन्द्रवायवे पुरोडाशम् अवदधाति मैत्रावरुणे पयस्याम् आश्विने धानाम् अरिक्तत्वाय वि वा एतद् यज्ञश् छिद्यते यत् सवनानि सन्तिष्ठते यद् एतानि पात्राण्य् आ तृतीयात् सवनात् परिशेरे यज्ञस्य सन्तत्या अविछेदाय वायव्यायां शस्यमानायां पात्राणि विमुञ्चति प्राणो वै वायुः प्राणेन यज्ञः सन्ततः प्राणेनैव यज्ञं सन्तनोति ॥