देवा वै सत्त्रम् आसत कुरुक्षेत्रे ऽग्निर् मखो वायुर् इन्द्रस् ते ऽब्रुवन् यतमो नः प्रथम ऋध्नवत् तन् नः सहेति तेषां वै मख आर्ध्नोत् तन् न्यकामयत तन् न समसृजत तद् अस्य प्रासहादित्सन्त स इत एव तिस्रो ऽजनयतेतो धनुस् तत् तिसृणां च धन्वनश् च जन्म स प्रतिधायापाक्रामत् तन् नाभ्यधृष्णुवत् स धन्वार्तिं प्रतिष्कभ्यातिष्ठत् स इन्द्रो वम्रीर् अब्रवीद् एतां ज्याम् अप्यत्तेति ता अब्रुवन्न् अभिमृतायां वा अस्यां न शक्ष्यामो जीवितुं भागो नो ऽस्त्व् इति सो ऽब्रवीद् रसम् एवास्या उपजीवाथेति तस्माद् एताः शुष्काद् आर्द्रम् उद्दिहन्ति रसं ह्य् अस्या उपजीवन्ति ता वै ज्याम् अप्यादंस् तस्य धन्वार्तिर् उदर्द्य शिरो ऽछिनत् स सम्राड् अभवद् अथेतरं त्रेधा व्यगृह्णताग्निः पूर्वार्धम् इन्द्रो मध्यं वायुर् जघनार्धं तस्माद् आग्नेयं प्रातःसवनम् ऐन्द्रं माध्यन्दिनं सवनं वैश्वदेवं तृतीयसवनं वायुर् हि विश्वे देवाः प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो वाग् ऐन्द्रवायवो दक्षक्रतू मैत्रावरुण आश्विनः श्रोत्रं चक्षुषी शुक्रामन्थिनव् आत्माग्रायणो ऽङ्गान्य् उक्थ्यास् आयुर् ध्रुवः स्तना ऋतुपात्रे मूर्धा द्रोणकलशः कुक्षी कलशौ हनू अधिषवणे जिह्वाधिषवणं ग्रावाणो दन्ता अक्षाः परिधयो नासिकोत्तरवेदिः शिखा यूपः शिरो हविर्धानं पृष्ठम् आग्नीध्रम् उदरं सदो यद् अन्तर् उदरे तद् धिष्ण्याः पाणी आग्नीध्रश् च मार्जालीयश् च पार्ष्णी गार्हपत्यः प्रतिष्ठा वेदिर् एष वै प्रजापतिः पात्रीयः स ह त्वा एनं वेद य एवं वेद ॥म्स्_४,५।९॥
तन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
तन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
तन् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अप्यत्तेति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
उदर्द्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।