०७

ब्रह्मवादिनो वदन्ति किं तद् यज्ञे क्रियते यस्माद् धस्तादाना अन्ये पशवो मुखादाना अन्य इति यद् उपांशुर् हस्तेन गृह्यते तस्मान् मर्कटः पुरुषो हस्ती ते हस्तादाना मुखं वै वायव्यं यद् वायव्ये नेतरे ग्रहा गृह्यन्ते तस्माद् इतरे पशवो मुखादाना ब्रह्मवादिनो वदन्ति किं तद् यज्ञे क्रियते यस्मात् सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरे पुरुषा इत्य् उपांश्वन्तर्यामौ वा अन्व् अन्ये पशवः पुरुषस् त्वै यज्ञेन सम्मितः प्राणापानौ वा उपांश्वन्तर्यामौ यद् एतौ ग्रहा असन्नौ हूयेते तस्मात् सद्यो जाताः पशवः प्रतितिष्ठन्ति संवत्सरो वा अग्निष्टोमो द्वादश मासाः संवत्सरो यद् एत इतरे ग्रहाः साद्यन्ते तस्मात् पुरुषो जातः संवत्सरे प्रतितिष्ठति यत् ते सोमादाभ्यं नाम जागृवीत्य् एष वै सोमस्य सोमपीथः सोमं वा एतत् सोमपीथेन समर्धयति यो वै सोमस्य सोमपीथं वेद न सोमपीथाच् छिद्यते सोमो वा इमा दिशो ऽभ्यकामयत प्राग् अपाग् अन्धराग् उदग् इत्य् आभिर् एनं दिग्भिः समूहत्य् आभिः समर्धयति कामम् एनं गमयति कामं ह गछति कामुका एनं स्त्रियो भवन्ति यां कामयेत तां तर्हि मनसा ध्यायेत् सा हैनं कामयते ऽम्ब निस्मरेति स्मरेति वा एतद् आह सम् अरिर् विदाम् इति सम् अनेन वित्स्वेति वा एतद् आह चत्वारो वै पृश्नेः स्तना आसंस् ततस् त्रिभिर् देवेभ्यो ऽदुहत् कुशीभिर् एको ऽनुनद्ध आसीत् तं वा इन्द्र एवापश्यत् तेनेन्द्रायैवादुहत् तद् वा अस्य कौशिकत्वं यद् आह ॥ ब्राह्मण कौशिका इव ॥ इति चतुर् निग्राभम् उपैति चत्वारि वै पयांसि यावद् एव पयस् तद् आप्नोति त्रिः सम्भरति तस्माद् एतस्यां त्रयो भागाः प्रातर् मध्यन्दिने सायं चतुर् निग्राभम् उपैति त्रिः सम्भरति तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे नव कृत्वो निग्राभम् उपैति त्रिः सम्भरति तद् द्वादश द्वादश मासाः संवत्सरो द्वादशाग्निष्टोमे स्तोत्राण्य् एषा यज्ञस्य मात्रा स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्य देवास् तमो ऽपाघ्नन् यत् प्रथमं तमो ऽपाघ्नन्त् साविः कृष्णाभवद् यद् द्वितीयं सा लोहिनी यत् तृतीयं सा बलक्षी स स्वेन रूपेण निरमुच्यत यद् बलक्षः पवित्रं भवति ततः शुक्रो गृह्यते यजमानस्य वा एतत् पवित्रं यजमानम् एवैतेन पुनात्य् अमोतं स्याद् आत्मन एवैनद् अकृत यद् अन्यत्रोतम् अपवित्रं तद् यजमानस्य ॥म्स्_४,५।७॥
पुरुषो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

वाग् वा ऐन्द्रवायवः सा वै वाग् एकधावदद्यावदव्यावृत्तासीत् स इन्द्रो ऽब्रवीन् मह्यम् अत्रापि सोमं गृह्णीताहं व एतां वाचं व्यावर्तयिष्यामीति स वै वाचैव वाचं व्यावर्तयद् यद् ऐन्द्रवायवो गृह्यते वाचो व्यावृत्त्यै वायवे प्रथमं गृह्णाति वायव उत्तमं मध्यत इन्द्रायेन्द्रियेण वा इयं वाङ् मध्यतो विधृतेन्द्रियवतीं वाचं वदति य एवं वेद देवा वै सोमम् अजिघांसंस् तं नाशक्नुवन् हन्तुं वायुर् ह्य् अस्मिन्न् अन्तरासीत् प्राणस् तं देवा अपाशासुर् उप ना आवर्तस्वेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीन् मद्देवत्यान्य् एव पात्राण्य् आसन्न् इति तस्माद् अपतुरीयं वायोः पात्रम् अथ वायव्यान्य् उच्यन्ते ततो वै देवाः सोमम् अघ्नन् स हतो ऽपूयत् तस्माद् देवा उदबीभत्सन्त स वायुर् अब्रवीद् अहं व एतं सोमं स्वदयिष्यामि भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीन् मदग्रा एव ग्रहा गृह्यान्ता इति तं वायुर् मध्यतो व्यवाट् तम् अस्वद्यत् तस्माद् वाय्वग्रा ग्रहा गृह्यन्ते तस्माद् उ शुक्तं प्रवाते विषजन्ति देवा वै प्रातःसवनम् उद्यमं नाशक्नुवंस् तृतीयसवने तर्हि वायुर् आसीत् तं देवाः प्रातःसवनम् अभिपर्यौहंस् तेन प्रातःसवनम् उदयछन्त यद् ऐन्द्रवायवः प्रातःसवने गृह्यते प्राणो वै वायुः प्राणेन व एतन् मुखतो यज्ञम् उद्यछन्ते देवा वै वृत्रम् अजिघांसन् स मित्रो ऽब्रवीन् मित्रो ऽहम् अस्मि नाहं हनिष्यामीति ते ऽब्रुवन् जह्य् एवेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् पयसैव मे सोमं श्रीणान् इति तस्मात् पशवो ऽपाक्रामन् मित्रः सन्न् अद्रुहा इति पशूणां हि पयो यन् मैत्रावरुणं पयसा श्रीणाति पशुभिर् एवैनं सम्यञ्चं दधाति यन् मैत्रावरुणं पयसा श्रीणाति द्विदेवत्यत्वाय यञ् शीतं तेन मैत्रं यत् तप्तं तेन वारुणं ब्रह्म वै मित्रः क्षत्रं वरुणो ब्रह्मणि च वा एतत् क्षत्रे च पयो दधाति तस्माद् ब्रह्म च क्षत्रं च पयस्वितमे पञ्च वै ब्राह्मणस्य देवता अग्निः सोमः सविता बृहस्पतिः सरस्वती तस्माद् ब्राह्मणम् अन्ये मनुष्या उपधावन्त्य् एतस्य हि भूयिष्ठा देवतास् तासां तिस्रो ऽवान्तरं श्रोत्रियस्याग्निर् बृहस्पतिः सरस्वती तस्माञ् श्रोत्रियम् अश्रोत्रिया उपधावन्त्य् एतस्य ह्य् अवान्तरं भूयिष्ठा देवतास् ता मैत्रावरुणं प्रति न्यागछन्ति यन् मैत्रावरुणं पयसा श्रीणाति तास्व् एव पयो दधाति नाना वै पुरा मित्रावरुणाभ्यां सोमा अगृह्णंस् ताः प्रजा अन्यान्यस्याः परिहायम् आददत ततो मित्रावरुणाभ्यां सह सोमम् अगृह्णंस् ततो वा अकल्पत यन् मैत्रावरुणं पयसा श्रीणाति मित्रेण वा एतद् वरुणं कल्पयति वरुणेन मित्रं मित्रं वै वृत्रं जघ्निवांसं वरुणो ऽगृह्णात् स देवेष्व् अनाथत ते ऽब्रुवन् वरुणे नाथस्वेति स वरुणे ऽनाथत सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् सहैव नौ पयसा सोमं श्रीणान् इति यन् मैत्रावरुणं पयसा श्रीणाति यजमानस्य निर्वरुणत्वाय यद्य् एनं भ्रातृव्यो ऽतीव स्याद् अङ्गुल्याङ्गुष्ठम् अवगृह्णीयाद् यद्य् अन्व् अङ्गुष्ठेनाङ्गुलिम् ॥
वै : फ़्न् एमेन्देद्। एद्।: व
तस्मात् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

यो नो मित्रावरुणा अभिदासात् सपत्नो भ्रातृव्य उत्पिपीते बृहस्पते ।