पवित्रं वितन्वन्ति प्राणापानयोर् विधृत्यय् उपयामगृहीतो गृह्यते ऽपानेन वै प्राणो धृतः प्राणस्य धृत्यय् अन्तरिक्षं वा अन्तर्यामो ऽन्तरिक्षम् इमाः प्रजा यद् एतद् पात्रं सूदवत् सादयति प्रजास्व् एव रसं दधाति देवाश् च वा असुराश् चास्पर्धन्त ते देवा उपांशुम् अपश्यंस् तम् अगृह्णत तं पुरा स्तोत्रात् पुरा शस्त्राद् धोतुम् उपोदतिष्ठंस् ते ऽसुरा अचिकयुर् जुह्वति वा इति ते वज्रम् आदायाभ्यपतंस् ते देवा अन्तर्यामम् अपश्यंस् तम् अगृह्णत तेनासुरान् एभ्यो लोकेभ्यो ऽन्तरदधत ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् अन्तर्यामं गृह्णीते ऽन्तर्यामेनैव भ्रातृव्यम् एभ्यो लोकेभ्यो ऽन्तर्धत्ते भवत्य् आत्मना परास्य भ्रातृव्यो भवति प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एष ग्रावान्तरैते पात्रे साद्यते प्राणापानयोर् विधृत्यै यो वा एता ईजते येनैतौ विधृता एष वाव स उपांशुसवनो ग्रावा प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे एतं ग्रावाणम् आ तृतीयात् सवनान् न जहीतस् तस्मात् सुप्तस्य सर्वाण्य् अन्यानि श्रोत्राण्य् अपक्रामन्ति प्राणापानौ त्व् एनं न जहीतो ऽथ यत् पुनर् अर्दयति तस्मात् सुप्त्वा पुनः प्रबुध्यन्ते प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे एतं ग्रावाणम् आ तृतीयात् सवनान् न जहीतस् तस्मात् पक्षिणो वियत्य पक्षान् ईरयन्तो नावपद्यन्ते ऽथ यत् पुनर् अर्दयति तस्मात् पुनर् अभ्यायुवते प्राणापानौ वा उपांश्वन्तर्यामौ व्यान उपांशुसवनो यद् एते पात्रे पुनः प्रयुज्येते तस्माद् इमौ द्वा अधस्तात् प्राणौ घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्त्य् अद्वर्युः प्रथमो ऽभिषुणोति व्यर्धुको भवति यत्र मूलं तद् अभिषुत्य एतद् वा अस्य विदेवतमं तथा हाव्यर्धुको ह भवति यो वै देवक्षेत्रं विद्वां समर्पयत्य् आर्तिम् आर्छति पात्राणि वाव देवक्षेत्रं यत्र वा अग्रे ऽध्वर्युः सोमं जुहोति तद् एनं देवताः प्रत्यासत इह नो परमा ह रिष्यतीति यत् ततो ऽन्यत्र जुहुयाद् यद् अस्य स्वं तद् अन्येभ्यः प्रयछेद् अस्वो ह भवत्य् एतद् वा अध्वर्योः स्वं यद् आश्रावयति यद् आश्राव्याहुत्वा प्रच्यवेत यद् अस्य स्वं तस्मात् प्रच्यवेतास्वो ह भवत्य् एतद् वा अध्वर्योः स्वं यद् वायव्यं यद् वायव्यम् अनालभ्याश्रावयेद् यद् अस्य स्वं तस्माच् छिद्येतास्वो ह भवति तद् य एवं विद्वान् आश्राव्य हुत्वा वाहुत्वा वा प्रच्यवते बह्व् अस्य स्वं भवति न स्वाच् छिद्यते वायव्यम् आलभ्याश्रावयति स्ववान् एव भवति ॥म्स्_४,५।६॥