०४

यज्ञस्य वा एताः पन्नेजनीः पुंसाम् अग्नीत् स्त्रीणां नेष्टा यद् अग्नीन् नेष्टुर् उपस्थम् आसीदति मिथुनं वा एतत् सम्भवतो यत् तर्ह्य् अप उपप्रवर्तयति तस्मिन्न् एव मिथुने रेतो दधाति पत्न्य् उपप्रवर्तयति पत्न्या हि प्रजाः प्रजायन्त ऊरुणोपप्रवर्तयत्य् ऊरुं ह्य् अनु प्रजाः प्रजायन्ते दक्षिणेनोरुणोपप्रवर्तयति दक्षिणं ह्य् ·रुम् अनु प्रजाः प्रजायन्ते ऽन्तरत उपप्रवर्तयत्य् अन्तरतो हि प्रजाः प्रजायन्ते यद् दक्षिणा प्रवर्तयेत् पितृलोक एना निधुवेद् अथ यद् उदीचीर् उपप्रवर्तयति मनुष्यलोकम् एवैना उपप्रजनयति प्राजापत्यो वा उद्गाता सङ्क्शाप्यमानो वा उद्गाता पत्न्या रेता आदत्ते यद् आह वामी ते सन्दृशि विश्वं रेतो धेषीयेति तथा ह नादत्ते द्वादशे स्तोत्र उपप्रवर्तयति द्वादश मासाः संवत्सरो द्वादशाग्निष्टोमे स्तोत्राण्य् आपः शान्तिर् यत् तर्ह्य् अप उपप्रवर्तयति शमयत्य् एव देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्यू पूष्णो हस्ताभ्याम् इति देवताभिर् एव ग्रावासीति राते ह्य् एष देवेभ्यः सोमम् अध्वरकृद् देवेभ्या इत्य् अद्वरं ह्य् एष देवेभ्यः करोतीन्द्राय त्वा सुषुत्तमं मधुमन्तं पयस्वन्तम् इत्य् ऐन्द्रो हि यज्ञ इन्द्रं खलु वा एतर्ह्य् अन्या देवता अन्व् इन्द्राय त्वा वसुमते रुद्रवता इति वसवश् च ह्य् एनम् एतर्हि रुद्राश् चान्व् इन्द्राय त्वादित्यवता इत्य् आदित्या ह्य् एनम् एतर्ह्य् अन्व् अग्नये त्वा रायस्पोषद इत्य् अग्निर् वै सर्वा देवता एता ह्य् एनम् एतर्हि देवता अनु विष्णवे त्वेति विष्णुर् हि यज्ञो व्यानो वा उपांशुसवनः प्रजा अंशवो व्यानं वा एतत् प्रजासु दधाति श्वात्राः स्थ वृत्रतुरा इत्य् एष वा अपां सोमपीथ एतं वै विश्वामित्रो ऽपां सोमपीथं विदाञ्चकार तस्मै सिन्धवो धोक्षम् अनमन्तापां वा एष सोमपीथो ऽपो वा एतत् सोमपीथेन समर्धयति यो वा अपां सोमपीथं वेद न ह वा आस्व् आर्तिम् आर्छति करोत्य् आसु वीर्यं यत् ते सोम दिवि ज्योतिर् इति सोमो वै वाजस् तस्य चन्द्रमास् तृतीयम् अयं यः पवते स तृतीयं येन यजन्ते स तृतीयं गर्भान् अमुना दाधार प्राणान् अनेन यछत्य् अयं यः पवते ऽन्नम् अनेन दाधार येन यजन्ते तस्य वै वाजस्य सत्यं वाजिनम् अन्नं वाजिनं दक्षिणा वाजिनं ता वा अस्यैतत् तन्वः सम्भृत्य तं सर्वं सतनुं भूतम् आप्याययन्ति वज्रो वै ग्रावा हनू अधिषवणे क्रूरम् इव वा एतद् यज्ञे क्रियते यद् आह धिषणे ईडिते ईडेथाम् इति शमयत्य् एव ॥म्स्_४,५।४॥

वसतीवरीभिः सोमम् आप्याययन्ति न हि सोमेन सोम आप्यायते ऽद्भिर् हि सोम आप्यायते निग्राभ्याभिर् उपांशुम् अतो हीतरे सोमा गृह्यन्ते प्राणो वा उपांशुर् अङ्गानीतरे ग्रहा यद् अन्यत आप्याययेयुः प्राणेन यज्ञं विछिन्द्युर् अष्टौ कृत्वः प्रातर् अभिषुणोत्य् अष्टाक्षरा गायत्री गायत्रीं वा एतत् प्रातःसवने व्यायातयन्ति देवाश् च वा असुराश् चास्पर्धन्त ते देवा उपांशौ यज्ञं संस्थाप्यम् अपश्यंस् तम् उपांशौ समस्थापयंस् तद् उपांशा एव यज्ञः संस्थाप्यो ऽष्टौ कृत्वः प्रातर् अभिषुणोत्य् अष्टाक्षरा गायत्री गायत्रीम् एवाप्नोति यद् एकादश त्रिष्टुभं तेन यद् द्वादश जगतीं तेन त्रिर् विगृह्णाति त्रीणि वै सवनानि सवनान्य् एवाप्नोत्य् एतद् वा उपांशौ यज्ञं समतिष्ठिपंस् तेन संस्थितेनारिष्टेन भूतेन प्रचरन्ति त्रिर् विगृह्णाति त्रयो हीमे प्राणाः प्राणो ऽपानो व्यानो ऽथो त्रयो वा इमे लोका इमान् एव लोकान् आप्नोत्य् असौ वा उपांशुर् अन्तरिक्षम् अन्तर्याम इयम् उपयामो यद् उपयामगृहीता गृह्यन्ते ऽनया वा एतद् गृह्यन्ते तद् अस्कन्ना वा एते ऽनया हि गृह्यन्ते यत् स्थाल्या गृह्यन्ते ऽनया वा एतद् गृह्यन्ते ऽस्या वा एषाधिक्रियते तद् अस्कन्ना वा एते ऽनया हि गृह्यन्ते यद् दारुमयेण गृह्यन्ते ऽनया वा एतद् गृह्यन्त इयं हि वनस्पतीनां योनिस् तद् अस्कन्ना वा एते ऽनया हि गृह्यन्त एष ते योनिर् इति सादयतीयं वै सोमस्य योनिर् अस्याः सोमो ऽधि जायते स्व एवैनं योनौ दधातीयं वै देवपात्रं तद् य एवं वेद प्र वसीयसः पात्रम् आप्नोति ब्रामणं तु पात्रे न मीमांसेत यः पात्रिय इव स्याद् अनुपयामगृहीतो गृह्यते ऽनुपयामगृहीतं हि प्रजाः प्राणम् उपजीवन्त्य् अपवित्रपूतो गृह्यते ऽपवित्रपूतं हि प्रजाः प्राणम् उपजीवन्त्य् असन्नो हूयते ऽसन्नं हि प्रजाः प्राणम् उपजीवन्ति पवित्रपूता वा अन्ये सोमा अथ वा एष वाक्पूतो यद् उपांशुस् तस्माद् वाचस्पतये पवस्वेत्य् आह वाक्पूतो ह्य् एषो ऽंशुभिः पावयति प्राणा वा अंशवः प्राणैर् एवैनं पावयति द्वाभ्यान्द्वाभ्यां पावयति द्वौद्वौ हीमे प्राणा देवो देवानां पवित्रम् असीति यत् स्वित् सोमं सोमेन पुनाति स्वाङ्कृतो ऽसीति प्राणम् एव स्वम् अकृत मनस् त्वाष्ट्व् इति मनसैव प्राणम् आप्नोति स्वाहा त्वा सुभव सूर्यायेति सूर्यदेवत्या हि सर्वे सोमा हूयन्ते ऽथो अत्र वै देवानां प्रियास् तन्वस् ता एवावरुन्द्धे देवेभ्यस् त्वा मरीचिपेभ्या इति रश्मयो वै देवा मरीचिपाः परिधयो रश्मयो ऽसा आदित्य आहवनीयस् तान् एव प्रीणात्य् ऊर्ध्वस् तिष्ठन् जुहोत्य् ऊर्ध्वो हि तिष्ठन् वीर्यवत्तरो यं द्विष्यात् तस्य जिह्मस् तिष्ठन् जुहुयात् प्राणान् अस्य व्लिनाति विह्वारुको भवति यद्य् अभिचरेद् आ तमितोस् तिष्ठेद् अग्निर् आहुतिम् अभित्वरमाणस् ताजग् अनुगछति यदि कामयेत वर्षेत् पर्जन्या इति परिमृज्योर्ध्वम् उन्मृज्याद् ओषधीभ्यो वा एषो ऽमुतो वर्षत्य् ओषधीर् एव नेदीयो वृष्ट्या अकर् यदि कामयेत वर्षेत् पर्जन्या इति परिमृज्यावाचीनम् अवमृज्याद् वैश्वानरेणैव वृष्टिम् अपि हन्ति नापिधेयो यद् अपिदध्यात् प्राणम् अस्यापिदध्यात् प्रमायुकः स्याद् यं द्विष्यात् तस्यापिदध्यात् प्राणम् एवास्यापिदधाति यद्य् अभिचरेत् ॥ इदम् अहम् अमुष्यामुष्यायणस्य प्राणम् अपिदधामि ॥ इत्य् अपिदध्यात् प्राणम् एवास्यापिदधाति ॥
इति : फ़्न् ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। ११४