देवेभ्यः प्रातर्यावभ्यो ऽनुब्रूहि ॥ इति छन्दांसि वै देवाः प्रातर्यावाणश् छन्दोभ्यो वा एतद् अनुवाच आह पुरा वाचः प्रवदितोः प्रातरनुवाकम् अन्वाह यजमानायैव वाचं गृह्णाति न वा एतर्हि यजमानो हस्ता अवनेनिक्ते यद् अप्सुमतीं प्रथमाम् अन्वाह प्रातरवनेगो वा एष यजमानस्य यत्र वा अदो ऽपः परिहरन्त्य् अद्भ्यो वा एतद् यज्ञं सम्प्रादाद् यद् अप्सुमतीं प्रथमाम् अन्वाहाद्भ्यो वा एतद् यज्ञं पुनर् आलभते सर्वेषां वै देवानां प्रातरनुवाक आपः खलु वै विश्वे देवा यद् अप्सुमतीं प्रथमाम् अन्वाह सर्वा वा एतद् देवता अप्नोति सर्वा व्यश्नोति यथा वै सामिधेनीर् एवं प्रातरनुवाक आसाद्य वै हविः सामिधेनीर् अन्वाहुर् एतत् खलु वा एतर्हि हविर् यत् सोमस् तस्मात् सोमम् उपावहृत्यान्वाह गायत्रीं च सम्पादयति जगतीं च तद् द्वे छन्दसी एकं छन्दो ऽभिसम्पादयति बृहतीं त्रिष्टुभं च ककुभं च तद् द्वे छन्दसी एकं छन्दो ऽभिसम्पादयति बृहतीम् अनुष्टुभं च पङ्क्तिं च तत् षट् छन्दांस्य् एकं छन्दो ऽभिसम्पादयति बृहतीम् अनुष्टुप्प्रतिपत्कानि छन्दांसि कुर्याद् यज्ञावकीर्णस्य वाग् वा अनुष्टुब् वाचैवैनं भिषज्यति समया त्रिष्टुभं च जगतीं चानुब्रूयात् पशुकामस्य पशवो वै जगती पशुमान् भवति सर्वाणि छन्दांश्य् अन्वाह प्रजापतिर् वै छन्दांसि प्रजापतिम् एवाप्नोति प्रजापतेर् वा एतद् उक्थं यत् प्रातरनुवाको व्युष्टायां पुरा सूर्यस्योदेतोर् अनुब्रूयाद् एष हि प्रजापतेर् लोकः पवित्रं वै प्रातरनुवाको यजमानम् एवैतेन पुनाति शतम् अनुब्रूयाद् आयुःकामस्य शतायुर् वै पुरुषः शतवीर्य आयुर् एव वीर्यम् आप्नोति सप्त च शतानि विंशतिं चानुब्रूयात् पशुकामस्यैतावन्ति वै संवत्सरस्याहोरात्राणि संवत्सरेणैवास्मै पशून् अवरुन्द्धे सहस्रम् अनुब्रूयात् स्वर्गकामस्य यावद् वै सहस्रं तावद् इते ऽसौ लोकः स्वर्गस्य लोकस्य समष्ट्यय् अपरिमिता अन्वाहापरिमितस्यावरुद्ध्यै पङ्क्त्या परिदधात्य् उत्तरम् एव यज्ञक्रतुम् अभिगृह्णाति ॥म्स्_४,५।३॥