अयं मे रद्ध इति वा एतद् आह यद्य् अग्निष्टोमो जुहोति न वा अग्निम् अग्निष्टोमस्य स्तोत्रेण न शस्त्रेणातियन्त्य् अग्निष्टोमम् एव यज्ञक्रतुम् अनुसन्तनोति यद्य् उक्थ्यः परिधिम् अनकति परे वा अग्नेः परिधयः पराणि परिधिभ्य उक्थान्य् उक्थान्य् एव यज्ञक्रतुम् अनुसन्तनोति यद्य् अतिरात्र एतद् एव यजुर् वदन् हविर्धानं प्रपद्येत परं वै परिधिभ्यो हविर्धानं परोक्थेभ्यो रात्री रात्रीम् एव यज्ञक्रतुम् अनुसन्तनोति स्तेनं मनो ऽनृतवादिनी वाग् अथ केन सोमा गृह्यन्ते केन हूयन्ता इति पृछेद् ऋतं वै सत्यं हिरण्यम् ऋतेनैव सत्येन गृह्यन्त ऋतेन हूयन्ते ॥म्स्_४,५।२॥
देवेभ्यो वै मनुष्येभ्यः स्वर्गाय लोकाय यज्ञ आह्रियते यद् धृदे त्वेति तेन देवेभ्यो यन् मनसे त्वेति तेन मनुष्येभ्यो यद् आह दिवे त्वा सूर्याय त्वेति तद् अनु यज्ञं स्वर्गं लोकं समारोहयति वि वा एतद् यज्ञश् छिद्यते यस्मै कम् आह्रियते तद् ध्य् एनम् अनु स्वर्गं लोकं समारोहयति यद् आह दिवि देवेषु होत्रा यछेति होत्राभिर् वै यज्ञः सन्ततो होत्राभिर् एव यज्ञं सन्तनोति ॥