अपो वै वृत्रः पर्यशयत् ततो या अत्यमुच्यन्त ता जीवा यज्ञिया गिरिर् वै वृत्रो या अतिमुमुचाना धावन्ति ता जीवा यज्ञिया यद् वहन्तीनां गृह्णाति या एव जीवा यज्ञियास् तासाम् एव गृह्णाति प्रतीपम् उपमारयत्य् अछम्बट्काराय सूर्यस्यावकाशे गृह्णाति सेन्द्रा एव गृह्णाति हविष्मतीर् इमा आपा इति हविष्मतीर् एव गृह्णात्य् आविःसूर्ये गृह्या उत्तरम् एव यज्ञक्रतुम् अभिगृह्णात्य् अनुष्टुभा गृह्णात्य् अनुष्टुब् वै सर्वाणि छन्दांसि सर्वैर् एवैनाश् छन्दोभिर् गृह्णाति वर्ष्म वा एषा छन्दसां वर्ष्मैनं समानानां गमयति चतुर्भिर् गृह्णाति त्रिभिः सादयति तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे ऽपो वै रात्रिर् दिवा भूते प्रविशति तस्माद् आपो दिवा कृष्णा अपो ऽहर् नक्तं तस्माद् आपो नक्तं शुक्ला यद् दिवा गृह्णात्य् उभे एवाहोरात्रे गृह्णाति दिवा वै मनुष्या यज्ञेन चरन्ति नक्तं देवास् तस्माद् रात्रिभिः श्रवस्यते संस्थाप्य वै मनुष्या यज्ञं निःपद्यन्त आपः खलु वै विश्वे देवा यद् अपः परिहरन्त्य् अद्भ्यो वा एतद् यज्ञं सम्प्रादाद् अन्यस्ते ऽस्य यज्ञे क्रियते यद् वै यज्ञस्यान्तर्यन्ति तच् छिद्रं तद् अनु रक्षांसि यज्ञम् अवयन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति यद् अपः परिहरन्ति रक्षसाम् अनन्ववायाय या दिवा गृह्णाति या अत्रीः प्रजास् तासाम् एता योनिस् ता एता अनुप्रजायन्ते या नक्तं गृह्णाति या आद्याः प्रजास् तासाम् एता योनिस् ता एता अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चाग्नीध्रे सादयत्य् एतद् वा अनभिजितम् अथो अत्र हि तां रात्रिं देवता उपवसन्ति देवा वै यज्ञस्य श्वस्तनं नापश्यंस् ते वा एतद् एव यज्ञस्य श्वस्तनम् अपश्यन् यद् वसतीवरीर् यद् वसतीवरीर् गृहीत्वोपवसन्ति श्वस्तनं वा एतद् यज्ञस्यालभ्योपवसन्त्य् अथो आपो वै विश्वे देवाः सर्वा वा एतद् देवता आलभ्योपवसन्ति यस्यागृहीताः सूर्यो ऽभिनिम्रोचेद् य आहिताग्निः सोमयाजी तस्य कुम्भाद् गृह्यास् तस्य हि गृहीता अग्निम् उपरिष्टाद् धारयेयुर् अथ गृह्णीयाद् ज्योतिष्मतीर् एवैना गृह्णाति हिरण्यं हस्ते भवत्य् अथ गृह्णाति सत्यं वै हिरण्यं सत्येनैवैना गृह्णाति वरो दक्षिणा वरेणैवैना गृह्णाति यत् तत्र धनम् अदास्यन्त् स्यात् तद् देयम् ॥म्स्_४,५।१॥
प्रचरण्याम् अग्रे गृह्णात्य् एषा ह्य् अग्रे प्रचरत्य् अपो वै सोमस्य रसः प्रविष्टो ऽग्निः सर्वा देवता वैश्वदेवीर् आपो यज्ञमुखं ग्रावाणः सवितृप्रसूतो वा एतत् सर्वाभिर् देवताभिर् अपां सोमस्य रसम् अछैति शृणोत्व् अग्निः समिधा हवं मा इति यस्मिन्न् एवाग्नौ जुहोति तम् एतद् आह शृण्वन्त्व् आपा इति या एवापो ऽछैति ता एतद् आह धिषणा च देवीति वाग् वै धिषणा देवी वाचं वा एतद् आह शृणोत ग्रावाणो विदुषो नु यज्ञम् इति यज्ञमुखं हि ग्रावाणः शृणोतु देवः सविता हवं मा इत्य् आह प्रसूत्या एव ॥
अप इष्य होतः ॥ इति यज्ञं प्रेष्येति वा एतद् आह ॥
प्र ब्रह्मणा इति ब्रह्मणैव यज्ञम् अछैति मैत्रावरुणस्य चमसेनाछैत्य् एष ह्य् अग्रे प्रचरत्य् अथो मित्रावरुणौ ह्य् अपाम् ईशाते यज्ञमुखं वै मित्रावरुणौ यज्ञमुखम् आपो यज्ञमुखेनैव यज्ञमुखम् अछैति यत्र होतुः प्रातरनुवाकम् अनुब्रुवत उपशृणुयात् तद् अपो ऽध्वर्युर् गृह्णीयाद् यन् नोपशृणुयाद् बधिरः स्याद् वाचो हि छिद्यते ऽथ यज् जुहोति हविर् भूता एवैना गृह्णात्य् अथो अभिघृता एव तृणं प्रास्य जुहोत्य् अग्निमत्य् एव जुहोत्य् आयतनवत्य् अन्धो ऽध्वर्युः स्याद् यद् अनायतने जुहुयाद् घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एता घारयन्ति तस्माद् आहुतिम् अपप्लावयत्य् अथो आहुतिं नेद् धराणीति कार्ष्य् असीत्य् आहुतिम् अपप्लावयति समुद्रस्य वो ऽक्षित्या उन्नया इत्य् उपसारयत्य् अपाम् एवाक्षित्यय् अपो वै सोमस्य रसः प्रविष्टः सोमम् अपां रसो ऽपाच् च खलु वै नपाच् चापां सोमस्य रसस्येशाते तौ वा एतद् आहुत्या भागधेयेनापां सोमस्य रसं निरयाचिष्टोभे अहोरात्रे वसतीवरीषु ग्रहीतव्ये इत्य् आहुः पूर्वेद्युर् अन्या गृह्णाति पुरान्याः सूर्यस्योदेतोस् तथास्योभे अहोरात्रे वसतीवरीषु गृहीते भवतः पूर्वेद्युर् अन्या गृह्णाति पुरान्याः सूर्यस्योदेतोर् उभयीर् एवैनाः सद्योगृहीता अकर् भ्रातृव्या वा एता गृह्यन्ते या मैत्रावरुणस्य चमसे याश् च निग्राभ्यास् ता उभयीर् उपरिष्टाच् चात्वालस्य समनक्ति सञ्ज्ञानम् आभ्यः करोति मित्रम् आभ्यो ददाति चात्वालान् निर्गृह्यन्त एष वा अपां योनिः स्वाद् एव योनेर् निर्गृह्यन्ते ऽस्कन्नत्वाय ॥
प्र : फ़्न् एमेन्देद्। एद्।: प्र।
अवेर् अपो ऽध्वर्या३ओम् ॥ इत्य् अविदो यज्ञा३म् इति वा एतद् आह ॥
उतेम् अनम्नमुर् उतेमं पश्य ॥