अग्निष्टोमम् अग्रे ज्योतिष्टोमम् आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखम् एवालभ्य सवम् आक्रमते ऽथैष त्रिष्टोमस् तस्य त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं तेजो वै त्रिवृत् क्षत्रं पञ्चदशस् तेज एवास्य क्षत्रे दधाति न वा अत्रापि सप्तदशस् तायते प्रजापतिर् वै सप्तदशो यज्ञः प्रजापतिर् यद् यज्ञस् तायते तेन सप्तदशो ऽनन्तरितः पञ्चदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनम् इति विड् वा एकविंशः क्षत्रं पञ्चदशो विशि वावास्यैतत् क्षत्रं प्रतिष्ठापयाम् अकः सर्वे चतुस्त्रिंशाः पवमाना अभिषेचनीयस्य त्रयस्त्रिंशद् देवतास् ता एवास्यैतेनाभीष्टाः प्रीता भवन्त्य् अथ य एष चतुस्त्रिंशः प्रजापतिर् वै चतुस्त्रिंशः प्रजापतिम् एवाप्नोति संशरो वा एष स्तोमानाम् अयथापूर्वं यद् विषमाः स्तोमा यत् समाः पवमानास् तेनैवासंशरस् तेन यथापूर्वम् आत्मना वा अग्निष्टोमेन ऋध्नोत्य् आत्मना पुण्यो भवति प्रजा वा उक्थानि पशव उक्थानि यद् उक्थ्यो ऽनुसन्तत्यै यो वै सवाद् एति नैनं सव उपनमति यः सामभ्या एति पापीयान्त् सुषुवाणो भवति यानि देवराजानां सामानि यत् तेभ्यो नैति तेनैव सवान् नैत्य् एतानि वै सामानि यत् पृष्ठानि यत् पृष्ठान्य् उपयन्ति तेनैव सामभ्यो नैति यानि देवराजानां सामानि तैर् अस्मिंल् लोक ऋध्नोति यानि मनुष्यराजानांस् तैर् अमुष्मिंस् तद् उभयोर् एवैतैर् लोकयोर् ऋध्नोत्य् अस्मिंश् चामुष्मिंश् चोद्वतीषु स्रुवत उद्वद् वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यस् तस्माद् उद्वतीषु स्रुवते ऽनुष्टुप् प्रथमा भवत्य् अनुष्टुब् उत्तमा वाग् वा अनुष्टुब् वाचा वा एतत् प्रयन्ति वाचोद्यन्ति सौर्य् अनुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यय् एकविंशं केशवपनीयस्य बहिष्पवमानम् एकविंशम् अभिषेचनीयस्योत्तमम् इति विड् वा एकविंशः क्षत्रं सप्तदशो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एष प्रतीचीनस्तोम इमं वा एतल् लोकं पुनर् उपावरोहति ॥म्स्_४,४।१०॥
संशरो : फ़्न् एमेन्देद्। एद्।: सशरो। च्फ़्। त्ब्।१।८।७।१
ऋध्नोत्य् : फ़्न् त्ब्।१।८।७।२: आत्मनैवाग्निष्टोमेनर्ध्नोति
एतल् : फ़्न् एमेन्देद्। एद्।: एतं