अश्वः प्रस्तोतुः प्राजापत्यो वा अश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्य् एष प्रोथति प्रेव प्रस्तोता धेनुः प्रतिहर्तुः प्रतीवा ह्य् एषा हरति प्रतीव प्रतिहर्ता वशा मैत्रावरुणस्य वशं मा नयाद् इत्य् ऋषभो ब्राह्मणाञ्शंसिनः सेन्द्रियत्वाय वासः पोतुः पवित्रत्वायानड्वान् नेष्टुर् अग्नीधो ऽन्यो युक्त्या एव स्थूरि यवाचितम् अछावाकस्य स्थूरीर् इव ह्य् एषा होत्रा स्वर्ग्या यद् अछावाक्याथो निर्वरुणत्वायैव यवा न वा अस्यै तर्हि सदस्येभ्यो दक्षिणा दीयन्ते त एवास्यै तेनाभीष्टाः प्रीता भवन्ति द्वादश पष्ठौहीर् गर्भिणीर् ब्रह्मणो वाग् वै धेनुर् गर्भो मन्त्रो वाच्य् एवास्य मन्त्रं दधात्य् आमन्त्रणीयो ह भवति धेनुम्भव्या भवन्ति द्वादश वै पयांसि तान्य् अस्मिन् दधाति तस्माद् वा एतम् आहुः पयस्वी राजा पुण्या इति यावद् धि पयस् तद् अस्मिन् धीयते ॥म्स्_४,४।८॥
श्रायन्तीयं ब्रह्मसामं भवत्य् अनुष्टुप्सु यज्ञायज्ञियं प्रोहन्ति वारवन्तीयम् अग्निष्टोमसामम् इन्द्रो वै वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतत् सामापश्यत् तेनात्मानं समश्रयतौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते तद् एतेनैवात्मानं संश्रयते ब्रह्म वै यद् अग्रे व्यभवद् ऋक् साम यजुस् तस्य वा एष रसो यद् यज्ञायज्ञियं यद् यज्ञायज्ञियं गायते ब्रह्मण्य् एव रसं दधाति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते वाग् अनुष्टुब् यद् अनुष्टुप्सु यज्ञायज्ञियं भवति वाच्य् एवास्य रसं दधातीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत इन्द्रियं वीर्यं वारवन्तीयं यद् वारवन्तीयम् अग्निष्टोमसामं भवतीन्द्रियस्य वीर्यस्यावरुद्ध्यय् अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेन तद् इन्द्रियस्यैवैते वीर्यस्य परिगृहीत्यै यत्र वा एनम् अदो दिशो व्यास्थापयति तत् स्वर्गं लोकम् अभ्यारोहति यद् इमं लोकं पुनर् नोपावरोहेद् अतिजनं वा गछेद् उद् वा माद्येद् यद् एता दिशाम् अवेष्टय इमं वा एतल् लोकं पुनर् उपावरोहत्य् अन्नकामो यजेतैतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽध्य् अन्नाद्यम् अवरुन्द्धे यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद् यदि वैश्यो वैश्वदेवं यदि राजन्य ऐन्द्रम् एकधैवास्मिन्न् अन्नाद्यं प्रतिष्ठापयति समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् यज्ञश् छिद्यते यत् सन्तिष्ठते यद् एताः प्रयुज उपैति सायम् अन्याः प्रातर् अन्या द्वौ वा ऋतू अहश् च रात्रिश् च ता एव प्रयुङ्क्ते षड् अन्याः षड् अन्याः षड् वा ऋतव ऋतून् एव प्रयुङ्क्ते ता उभयीर् द्वादश द्वादश मासाः संवत्सरः संवत्सरम् एव प्रयुङ्क्ते ऽनड्वाहौ दक्षिणा युक्त्या एव मारुती पृश्निः पष्ठौही गर्भिणीति विड् वै मरुतो विशो वा एनम् एतद् गर्भं करोति तस्माद् वा एष विशः प्रियः प्रियो हि गर्भ आदित्याजा मलिहा गर्भिणीतीयं वा अदितिर् अस्या वा एनम् एतद् गर्भं करोति तस्माद् वा एष दुःपराणोदो ऽस्या हि गर्भो ऽथैते सत्यदूताः प्रसवाय सावित्रो देवा असुरैर् विजयम् उपयन्तो ऽश्विनोः पूषणि सत्यं न्यदधत वाग् वै सरस्वती वाचा सत्यं प्रहिणोति ॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं