०७

समानो वा एष यज्ञक्रतुः संवत्सरं भवति वि वा एतद् दशपेयश् छिद्यते यद् अवभृथम् अवयन्ति यद् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति जुह्वत आयन्ति यज्ञस्य सन्तत्या अविछेदाय यज्ञो वै देवेभ्यस् तिरो ऽभवत् तं देवाः संसृप्स्व् अन्वैछन् यत् सावित्रः सवितृप्रसूता एवान्वैछन् यत् सारस्वतो वाग् वै सरस्वती वाच्य् एवान्वैछन् यत् पौष्णः पशवो वै पूषा पशुष्व् एवान्वैछन् यद् बार्हस्पत्यो ब्रह्म वै बृहस्पतिर् ब्रह्मण्य् एवान्वैछन् यद् ऐन्द्र इन्द्रियं वा इन्द्र इन्द्रिय एवान्वैछन् यद् वारुणो वरुण एवान्वैछन् यत् त्वाष्ट्रः संवत्सरो वै त्वष्टा संवत्सर एवान्वैछन् यद् आग्नेयो ऽग्निर् वै सर्वा देवता देवतास्व् एवान्वैछन् यत् सौम्यः सौमीर् वा ओषधय ओषधीष्व् एवान्वैछन् यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एवान्वैछंस् तं विष्णा अविन्दन् दशमे तस्माद् एष दशमो दशमे ह्य् अविन्दन् दश चमसा दश चमसाध्वर्यवो दशदश चमसान् अभिता आ दशमात् पुरुषाद् अन्वाचष्टे समृद्ध्यै दशसमृद्धो ह्य् एष यज्ञ एतं वै ते तद् यज्ञम् अन्वैछंस् त आर्ध्नुवंस् तद् य एतेन यजत ऋध्नोति सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्ध इन्द्रो वै वृत्रम् अहंस् तस्येमे रूपाण्य् उपैतां चित्राणीयम् नक्षत्राण्य् असौ नक्षत्राणां वा अवकाशे पुण्डरीकं जायते क्षत्रस्य वा एतद् रूपं क्षत्रस्यैव रूपं प्रतिमुञ्चते द्वादशपुण्डरीका भवन्ति द्वादश मासाः संवत्सरः संवत्सरम् एवाप्त्वावरुन्द्धे ॥म्स्_४,४।७॥
रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।

रुक्मो होतुर् आग्नेयो वै होता न वा एतस्मै व्युछति व्य् एवास्मै वासयति स्रग् उद्गातुः सौर्यो वा उद्गाताथो अमुम् एवास्मा आदित्यम् आप्त्वोन्नयति प्रावेपा अध्वर्योर् यमा इव ह्य् अध्वर्युः ॥