०६

उद्भिन्नं राज्ञः ॥ इति चत्वारो वै पुरुषा ब्राह्मणो राजन्यो वैश्यः शूद्रस् तेषाम् एवैनम् उद्भेदयति ततः पञ्चाक्षान् प्रयछन्न् आह दिशो अभ्यभूद् अयम् इतीमा एवास्मै पञ्च दिशो ऽन्नाद्याय प्रयछति क्षेत्रं ददाति तेन क्षेत्रे धृतो भवति वरं वृणीते सो ऽस्मै कामः समृध्यते यत्कामो भवति मङ्गल्यनाम्नो ह्वयति यत् पूर्वं व्याहार्षं तन् नेन् मोघम् असद् इत्य् असा अमुष्य पुत्रो ऽमुष्यासौ पुत्र इति नामनी व्यतिषजति स्वर्गस्य लोकस्य समष्ट्यै ॥म्स्_४,४।६॥