अथैतानि पार्थानि संवत्सरो वै पार्थानि संवत्सरं वा एतन् मध्यतः प्रविशति तस्माद् वा एष दुःपराणोदः संवत्सरं हि मध्यतः प्रविशति गिरी वा एतौ राजसूयस्य बार्हस्पत्यम् अन्येषाम् उत्तमं भवत्य् ऐन्द्रम् अन्येषां प्रथमं वीर्यं वै बृहस्पतिर् वीर्यम् इन्द्रो वीर्य एवैनम् अभिसन्धत्त आदित्यनामानि वा एतान्य् आदित्या वा इमाः प्रजास् ताभ्य एव सूयते सोमस्य त्वा द्युम्नेनाग्नेस् तेजसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिषिञ्चामीत्य् एतैर् एवैनम् इन्द्रियैर् एताभिर् देवताभिर् अभिषिञ्चतीन्द्रस्य योनिर् असि जनयेत्य् अतो वा अधीन्द्रो ऽजायत स्वाद् एवैनं योनेर् जनयत्य् अति द्यून् पाहीत्य् आह स्वर्गस्य लोकस्य समष्ट्यै समाववृत्रन्न् अधराग् उदक् ता इति समुन्मार्ष्टीन्द्रियं वा एतद् वीर्यम् अभिषिच्यमानस्य व्यवैति तद् एव समुन्मार्ष्टि तेनैनं समर्धयत्य् ऐन्द्र्या त्रिष्टुभा ब्रह्मान्वेत्य् ऐन्द्रो वै राजन्यस् त्रिष्टुप्छन्दाः स्वेनैवैनं छन्दसान्वेत्य् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतेर् अधीन्द्रो ऽसूयत प्रजापतेर् एवाधि सूयत इन्द्रस्य वज्रो ऽसि वाजसनिस् त्वयायं वाजं सेद् इति रथम् उपावहरति स्वयैव देवतया मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति स्वयैव देवतया विष्णोः क्रमो ऽसि सपत्नहेति रथम् अभ्यातिष्ठत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते मरुतां प्रसवे जयेति मारुत एव गणो भूत्वोज्जयति राजन्यं जिनात्य् अन्तम् एवाक्रमीत् तद् अस्य न कश्चनाज्येय उञ्शिष्यते तस्मै ताम् इषुम् अस्यति तद् अस्यामोघायास्तम् अभूद् आप्तं मनः सम् इन्द्रियेणेत्य् उक्त्वा वर्तते ऽन्तम् एव गत्वावर्तत आत्मनो ऽहिंसायय् एष वज्रो वाजसातमस् तेन नौ पुत्रो वाजं सेद् इति पत्न्यै धन्वार्तिं प्रयछत्य् एष वै पत्न्या यज्ञस्यान्वारम्भः सह स्वर्गे लोके भवतः ॥म्स्_४,४।५॥
इयद् अस्य् आयुर् अस्य् आयुर् मे धेहीत्य् आयुर् एवास्मिन् दधाति युङ्ङ् असि वर्चो ऽसि वर्चो मे धेहीति वर्च एवास्मिन् दधात्य् ऊर्ग् अस्य् ऊर्जं मयि धेहीतीयं वै रजतासौ हरिणीमे एवालभ्योर्ग् वा उदुम्बर ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च मित्रो ऽसीतीमम् उपावहरति मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं सद् असि सम् अहं विश्वैर् देवैर् इति हस्ता आमिक्षाम् अभ्यवहरति सद् वा आमिक्षा सद् एवाभ्यवहरति तत्र ते हिरण्ये ददाति सा दक्षिणा हिनस्ति खलु वा एष पशून् पृथिवीम् अभ्यवरोहन् नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहत्य् आरण्यान् एव पशून् अभ्यवरोहति वराहस् त्व् एवैतं सग्धुम् अर्हति तद् वराह एवैनं सघ्नोति प्रति त्यन् नाम राज्यम् अधायि स्वां तन्वं वरुणो ऽसुषोद् इति वरुणसवो वा एष वरुणायैवैनं प्राह नि त्रितो जरिमाणं न आनड् इति जरिमाणम् एवास्मिन् युनक्ति स्योनासि सुषदेति स्योना ह्य् एषा सुषदा स्योनाम् आसीद सुषदाम् आसीदेति सुषदैवैनं सादयति ॥
निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ ।
साम्राज्याय सुक्रतुः ॥ इति वरुणसवो वा एष वरुणम् एवैनम् अकर् अग्नये स्वाहा सोमाय स्वाहेन्द्रस्यौजसे स्वाहा मरुतां बलाय स्वाहेति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते हंसः शुचिषद् वसुर् अन्तरिक्षसद् इति रथं वा एतत् परिवदति सह सारथिना रथवाहने रथम् आदधति सर्वत्वायैव प्रसवाय ब्रह्मा३ंस् त्वं ब्रह्मासीति किम् अभूं किम् अभूम् इति वा एतद् आह सवितासि सत्यसवा इतीदम् असीदम् असीति वावैनम् एतद् आह यद्यद् भवत्य् एष वज्रस् तेन मे रध्येति स्फ्यं प्रयछति वज्रो वै स्फ्यो वज्रेण वा एतद् राष्ट्रं रन्धयते तम् अवरस्परं प्रयछति तेनावरस्परं राष्ट्रं रन्धयमाण एति तस्माद् वा एत एतस्मा अवरस्परं रद्धा बलिं हरन्ति तेन स्फ्येनाधिदेवनं कुर्वन्ति तत्र पष्ठौहीं विदीव्यन्त आशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकस् ततश् चतुःशतम् अक्षाण् अवोह्याह ॥