क्षत्रस्य योनिर् असि क्षत्रस्योल्बम् असि क्षत्रस्य नाभिर् असीतीन्द्रो वै यद् अजायत तस्य वा एष योनिर् आसीद् यत् तार्प्यम् उल्बं पाण्डरं नाभिर् उष्णीषः सूतवशाया अध्यजायत सूना चतुःपद्य् ऊधर् आसीन् नीवाराः पीयूषस् तस्मान् नैवारः पुरोडाशः पञ्चाशतम् अन्यस्मिन्न् अक्षण्य् आनक्त्य् एकपञ्चाशतम् अन्यस्मिन् शतायुर् वै पुरुषः शतवीर्या आयुर् एव वीर्यम् आप्नोत्य् अप उपस्पृशत्य् अमृतं वा आपो ऽमृतेनैवैनं संरम्भयत्य् आवित्तो अग्निर् गृहपतिर् इति गार्हपत्यायैवैनम् आवेदयत्य् आवित्ता इन्द्रो वृद्धश्रवा इतीन्द्रियं वा इन्द्र इन्द्रियायैवैनम् आवेदयत्य् आवित्तौ मित्रावरुणौ धृतव्रता इत्य् अहोरात्रे वै मित्रावरुणव् अहोरात्राभ्याम् एवैनम् आवेदयत्य् आवित्ते द्यावापृथिवी ऋतावृधा इति द्यावापृथिवीभ्याम् एवैनम् आवेदयत्य् आवित्तः पूषा विश्ववेदा इति पशवो वै पूषा पशुभ्य एवैनम् आवेदयत्य् आवित्ता देव्य् अदितिर् इत्य् आदित्या वा इमाः प्रजास् ताभ्य एवैनम् आवेदयत्य् आवित्तो ऽयम् असा आमुष्यायणो ऽमुष्याः पुत्रो ऽमुष्यां विशीति विश एवैनम् आवेदयति तस्माद् वा एष विशः प्रियो विशे ह्य् एनम् आवेदयत्य् एष ते जनते राजेति जनताया एवैनम् आवेदयति सोमो ऽस्माकं ब्राह्मणानां राजेति ब्रह्मोद्धरति सर्वेभ्य एवैनम् अन्येभ्यो भूतेभ्य आवेदयति ब्रह्मोद्धरति तस्माद् आहुर् ब्रह्मोद्धृतम् इति ब्रह्म ह्य् उद्धरतीन्द्रस्य वर्जो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्याद् इति धनुः प्रयच्छति वज्रो वै धनुर् वज्रो राजन्यो वज्रेणैव वज्रं समर्धयति शत्रुबाधनाः स्थेति बाणवतो ऽन्तो वै बाणवन्तो ऽन्तो राजन्यो ऽन्तेनैवान्तं समर्धयति त्रीन् प्रयच्छति तिस्रो वै शरव्या दिव्या पार्थिवा समुद्रिया ता अस्माद् योयाव पात प्राञ्चं पात प्रत्यञ्चं पात तिर्यञ्चं पातान्वञ्चं पातोर्धं दिग्भ्य एनं पातेति दिग्भ्य एनं पान्ति मित्रो ऽसीतीमम् अभिमन्त्रयते मित्रस्य ह्य् एतद् रूपं वरुणो ऽसीतीमं वरुणस्य ह्य् एतद् रूपं हिरण्यवर्णम् उषसो व्युष्टा इत्य् उद्वता अभिमन्त्रयेतोर्ध्वबाहुं तिष्ठन्तम् अभिषिञ्चति बृहत् साम भवति स्वर्गम् एवैनं लोकम् अभिसन्तनोति ॥म्स्_४,४।३॥
रूपं : ⟨ रूपम्
रूपं : फ़्न् एमेन्देद्। एद्।: रपम्।
ऊर्ध्वबाहुं : फ़्न् एमेन्देद्। एद्।: ऊर्ध्वबाहुस्। धर्मधिकरि, प्।४८५