०२

देवीर् आपो मधुमतीः संसृज्यध्वं महि क्षत्रं क्षत्रियाय वन्वाना इत्य् एता हि क्षत्रस्य वन्त्रीर् अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीर् इत्य् एता हि क्षत्रस्य धात्रीर् अनिभृष्टम् असीत्य् अनिभृष्टं ह्य् एव राष्ट्रम् अकस् तपोजा इति तपोजा हि राष्ट्रं सोमस्य दात्रम् इति सोमस्य ह्य् एतद् दात्रं शुक्रा वः शुक्रेण पुनामि चन्द्रा वश् चन्द्रेण पुनामीत्य् आयुर् वै हिरण्यम् आयुष्या एवैना अकर् वर्चो वै हिरण्यं वर्चस्या एवैना अकर् देवो वः सविता पुनात्व् अछिद्रेण पवित्रेणेत्य् एतद् वा अछिद्रं पवित्रं यत् सूर्यस रश्मयो ऽछिद्रेणैवैनाः पवित्रेण पुनाति स्वाहा राजसूया इति राजसूया ह्य् एताः सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति वारुण्या वारुणीर् ह्य् आपः स्वयैव देवतया रुद्र यत् ते गिरिपरं नामेति रुद्रम् एवास्मात् तेन निरवदयते तस्मिन् हुतम् असि यमेष्टम् असि स्वाहेति मृत्युर् वै यमो मृत्युम् एवास्मात् तेन निरवदयते सोमा इन्द्रो वरुणो मित्रो अग्निस् ते देवा धर्मधृतो धर्मं धारयन्त्व् इत्य् एते वै देवा धर्मधृतो यद् इमे प्राणा यद् एनम् एतेभ्यो ऽप्रोच्याभिषिञ्चेयुर् अपरोधुका एनं स्युर् अथ यद् एनम् एतेभ्यः प्रोच्याभिषिञ्चन्ति तथा हैनम् अनपरोधुका भवन्ति पर्णस्य वा अग्रे ऽन्ते ब्रह्म समवदन्त तद् वाव सुश्रवा यत् तद् अशृणोत् पर्णमयेनाभिषिञ्चति ब्रह्माभिषिञ्चति ब्रह्मवर्चसेनैवैनम् अभिषिञ्चत्य् अथो ब्रह्म वै ब्रह्मा ब्रह्मणैवैनं ब्रह्माभिषिञ्चत्य् आश्वत्थेन वैश्यो विशो वीर्यम् अपाक्रामत् तद् अश्वत्थं प्राविशत् स तेन वीर्येण भर्भराभवत् तद् विश एवैतेन वीर्यम् अवरुन्द्ध औदुम्बरेण भ्रातृव्य ऊर्ग् वा उदुम्बरा ऊर्जं वा एतद् अन्नाद्यं यजमानो भ्रातृव्यस्य वृङ्क्ते यो जन्यो मित्रं स नैयग्रोधेन मित्रेण वै क्षत्रं व्यवततम् अवरोधैर् न्यग्रोधो मित्रेण वा एतत् क्षत्रं व्यवतनोति द्रढिम्ने ऽशिथिरत्वाय ॥म्स्_४,४।२॥
शुक्रा : फ़्न् एमेन्देद्। एद्।: श्रुक्रा। च्फ़्।२।६।८:६८।१२
स्वाहेति : फ़्न् एमेन्देद्। एद्।: स्वाहेसि।