०१

प्रतीपम् अन्य ऊर्मिर् युध्यत्य् अन्वीपम् अन्यो मिथुनत्वाय यत् तस्य गृह्णाति यः प्रतीपं युध्यत्य् ओजसा वा एष वीर्येण प्रतीपं युध्यत्य् ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् तस्य गृह्णाति यो ऽन्वीपम् ईरयति माहिषं तेन तोकं प्रजनयत्य् अथ यन् नदीपतेर् अपां वा एतन् मिथुनम् अपां वा एतन् मिथुनेन राष्ट्रे मिथुनं दधात्य् अथ यद् अप्रहावरीणां मध्यमेष्ठेयं तेनावरुन्द्धे ऽथ यत् परिवाहिणीनां पारेवस्यन्त्यास् तेन तोकं प्रजनयत्य् अथ या आपो ऽञ्शेरा ओजसा वा एता वीर्येणापो ऽञ्शेरा ओजसा वा एतद् वीर्येण राष्ट्र ओजो वीर्यं दधात्य् अथ यत् कूप्यानाम् उभयीस् तेनापो ऽवरुन्द्धे याश् च समुद्रिया याश् चासमुद्रिया ईश्वरा वा एतम् एता स्रोतस्या आपो ऽशान्ता निर्मृजो यत् स्थावराणां गृह्णाति शान्त्या अनिर्मार्गाय या आतपति वर्षति याश् च परिददृश्रे ता आपो ब्रह्मवर्चस्यास् ताभी राष्ट्रे ब्रह्मवर्चसं दधात्य् अथ यद् ध्रादुनीनां विशस् तेन वीर्यम् अवरुन्द्धे ऽथ यत् पुष्पाणाम् आरण्यं तेनाथ यद् उल्ब्यानां वज्रो वै पशवो वज्रा उल्ब्या वज्रेण वा एतद् राष्ट्रे वज्रं दधात्य् अथ यत् पयसः पयसा वा एतद् राष्ट्रे पयो दधात्य् अथ यद् घृतस्यैता वा आपो ऽनाधृष्यास् ताभी राष्ट्रम् अनाधृष्यं करोत्य् अथ यन् मधोर् अपां वा एष ओषधीनां रसो ऽपां वा एतद् ओषधीनां रसेन राष्ट्रे रसं दधाति षोडश वा एते ग्रहाः प्राजापत्याः समानीतः सप्तदशः प्रजापतिः सप्तदशः प्रजापतिम् एवाप्नोति ॥म्स्_४,४।१॥