१०

अपां वा एतानि चित्राण्य् अपां वा एतच् चित्राणि सम्भरन्त्य् अपाम् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति तस्माद् वा एषो ऽभिषिक्तश् चित्रं राजेति श्रूयते ऽपां ह्य् एनं चित्रैर् अभिषिञ्चन्ति चित्रम् अस्मिन् दधति यथा वा इदं मधुकृतो मधु सम्भरन्त्य् एवं वा एतद् अपाम् ओषधीनां रसं सम्भरन्त्य् अपाम् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति तस्माद् वा एतम् आहुर् असी राजा पुण्या इत्य् अपां ह्य् एनम् ओषधीनां रसेनाभिषिञ्चन्ति रसम् अस्मिन् दधति वरुणसवो वा एष वारुणीर् आपो यद् अद्भिर् अभिषिञ्चति वरुणम् एवैनम् अकर् विषुवान् वै सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते विषुवान् भवति षोडश ग्रहा गृह्यन्ते षोडश होमा हूयन्ते तद् द्वात्रिंशद् द्वात्रिंशदक्षरानुष्टुब् यावत्य् एव वाक् तया सूयते ॥म्स्_४,३।१०॥