इन्द्रायांहोमुचा एकादशकपालं निर्वपेद् यद् एव किञ्चार्वाचीनं जनितोर् एनः करोति तत एनम् अंहोमुङ् मुञ्चतीन्द्राय सुत्राम्णा एकादशकपालं य एवोपवादी यो ऽभिदासति तत एनं सुत्रामा त्रायते ऽथैतन् मैत्राबार्हस्पत्यं सत्यं वै मित्रो ब्रह्म बृहस्पतिः सत्यं चैव ब्रह्म चालभ्य दीक्षते क्षत्रं वै मित्रो ब्रह्म बृहस्पतिः क्षत्रं चैव ब्रह्म चालभ्य दीक्षते यस्य राष्ट्रं शिथिरम् इव स्यात् तम् एतेन याजयेन् मैत्राबार्हस्पत्येन क्षत्रं वै मित्रो ब्रह्म बृहस्पतिर् ब्रह्मणि वा एतत् क्षत्रं प्रतिष्ठापयति द्रढिम्ने ऽशिथिरत्वायाथैते देवस्व एते वै देवानां सूता एते सवपतय एते सवस्येशते त एनं सुवते तस्माद् वा एतम् आहुः पूर्वेद्युर् वा एष सूयते ऽभितश् च सिच्यता इत्य् अथैष मारुत एकविंशतिकपालस् त्रिर् वै सप्तसप्त मरुतो विण् मरुतो विशो वा एतन् मध्यतः सूयते तस्माद् वा एष विशः प्रियो विशो हि मध्यतः सूयते वरुणस्य वा अभिषिच्यमानस्येन्द्रियं वीर्यम् अपाक्रामत् तत् त्रेधाभवद् भृगुस् तृतीयम् अभवच् छ्रायन्तीयं तृतीयं सरस्वतीं तृतीयं प्राविशद् यद् भार्गवो होता भवति श्रायन्तीयं ब्रह्मसामं सारस्वतीर् आपस् तद् एवेन्द्रियं वीर्यं तेज आप्नोति वाचा वा एतम् अभिषिञ्चन्ति यम् अभिषिञ्चन्ति वाक् सरस्वती सारस्वतीर् आपो यत् सारस्वतीभिः सूयते यावत्य् एव वाक् तया सूयते ॥म्स्_४,३।९॥