अथैते रत्निनः क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतान्य् ओजस्वीनि भवन्ति तद् राष्ट्रम् ओजस्वी भवति तान्य् एवास्यौजस्वीनि करोति क्षत्रस्य वा एतान्य् अङ्गानि यस्य वा एतानि तेजस्वीनि भवन्ति तद् राष्ट्रं तेजस्वी भवति तान्य् एवास्य ब्रह्मणा तेजस्वीनि करोति बार्हस्पत्यश् चरुर् ब्रह्मणो गृह इति ब्रह्म वै बृहस्पतिर् बृहस्पतिपुरोहित खलु वै राष्ट्रम् ऋध्नोति ब्रह्म वा एतत् पुरस्ताद् राष्ट्रस्यात्यौहीद् अथो ब्रह्मण एव राष्ट्रम् अनुकं करोत्य् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र इन्द्रिय एव प्रतितिष्ठत्य् आदित्यश् चरुर् महिष्या गृह इतीयं वा अदितिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति धेनुर् दक्षिणैतद् ध्य् अदित्या रूपं नैरृतश् चरुर् नखावपूतानां परिवृक्त्या गृह इति निरृतिगृहीता हि वा एषाथैतां परिवृञ्जन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् अस्या एवैनं मात्रां गमयतीमाम् एवैनं प्रजाभ्य उपजीवनीयं करोति श्येनी वण्डापस्फुरा दक्षिणैतद् धि निरृत्या रूपम् आग्नेयो ऽष्टाकपालः सेनान्यो गृह इत्य् अग्निर् वै सर्वा देवता देवताभिर् एवास्य सेनामुखं जित्यै संश्यति हिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव जयत्य् आश्विनो द्विकपालः सङ्ग्रहीतुर् गृह इति रथरेषम् एवास्मात् तेन निरवदयते सवत्यौ दक्षिणेति सवत्या इव हि सव्यस्थसारथी रथम् अभि सावित्रो ऽष्टाकपालः क्षत्तुर् गृहे प्रसूत्यय् अथो सवितेव ह्य् एष प्रजाभ्यः प्रसुवति वारुणो यवमयो दशकपालः सूतस्य गृहे मारुतः सप्तकपालो वैश्यस्य ग्रामण्यो गृह इति सूतमुखा वै विट् क्षत्रम् उपतिष्ठते सूतमुखां वावास्मा एतद् विशं मुखतो ऽन्नाद्यायोपदधाति पौष्णश् चरुर् भागदुघस्य गृह इति पुष्टिर् वै पूषा पुष्टिम् एवास्य भागे दधाति वैष्णवस् त्रिकपालस् तक्षरथकारयोर् गृह इति विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति रौद्रो गावीधुकश् चरुर् अक्षावापस्य गृहे गोविकर्तस्य चेत्य् अन्तत एवास्मात् तेन रुद्रं निरवदयते ऽथो रुद्र इव ह्य् एतौ पशू अभिमन्यते एकादश वा एतानि हवींष्य् एकादशाक्षरा त्रिष्टुब् वीर्यं त्रिष्टुब् वीर्य एव प्रतितिष्ठति नाना वा एत एतेषाम् आशिषो ऽवरुन्धते यत् सह निर्वपेयुर् अरत्निनः स्युर् ऐन्द्र एकादशकपालो राज्ञो गृह इतीन्द्रियं वा इन्द्र एकधा वा एतद् यजमाने यज्ञस्याशीः प्रतितिष्ठत्य् ऐन्द्रो हि यजमानः ॥म्स्_४,३।८॥
अभिमन्यते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।