०७

अथैतत् त्रिषंयुक्तं यत् पूर्वं त्रिषंयुक्तम् इत एवास्मै तेनोर्ध्वान् इमांल् लोकान् दाधार यद् उत्तरं त्रिषंयुक्तम् अमुत एवास्मै तेनार्वाच इमांल् लोकान् दाधार तद् एषां वावैते लोकानां विधृत्यै यत् पूर्वं त्रिषंयुक्तं वीरजननं तद् यद् उत्तरं पशुजननं तद् यत् पूर्वं त्रिषंयुक्तं वीरान् एवास्मै तेन जनयति यद् उत्तरं पशूंस् तेन यत् पूर्वं त्रिषंयुक्तं रेत एव तेन दधाति यद् उत्तरं प्र तेन जनयति यत् पूर्वं त्रिषंयुक्तं तेन यज्ञकामो यजेताग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धैन्द्रो वै यज्ञो विष्णुर् यज्ञस् तद् यज्ञस्यैवैष आरम्भो ऽथ यद् वैष्णवो विष्णुर् वै यज्ञो यज्ञ एव प्रतितिष्ठति यद् उत्तरं त्रिषंयुक्तं तेन पशुकामो यजेत सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्रजनयतीन्द्रियेण वै पशवः प्रजायन्ते पूषा प्रजनयतीन्द्रियेणैवास्मै पूषा पशून् प्रजनयत्य् अथ यत् पौष्णः पशवो वै पूषा पशुष्व् एव प्रतितिष्ठत्य् अथैतद् वैश्वानरवारुणं संवत्सरो वा अग्निर् वैश्वानरस् तस्य वा एते स्वा यद् ऋतवस् तेषां वा एषो ऽभिषिक्तो राजाभिषिक्तो वै देवानां वरुण एतौ वै देवानां सूतव् एतौ सवपती एतौ सवस्येशाते ता एनं सुवाते यावन्तो वा एतस्य स्वा अनुका वै त एतम् अनुका देवा वरुणं यावन्त एवास्य स्वास् तान् अस्मा अनुकान् अविवादिनः करोतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति तस्माद् राजसूयाभिषिक्तस्य जरसा दन्ता अवशीयन्ते संवत्सरे ह्य् एनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति यो ज्योगामयावी स्यात् तम् एतेन याजयेद् वरुणेन हि वा एष पाप्मना गृहीतो ऽथैतस्य ज्योग् आमयति यद् वारुणो वरुणाद् एवैनं तेन मुञ्चतीयांश् चरुर् भवत्य् एतावान् वा आत्मा यावान् एवास्यात्मा तं वरुणान् मुक्त्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनं प्रतिष्ठापयति संवत्सरायुषम् एनं करोति ॥म्स्_४,३।७॥