०६

आमयाविनं याजयेद् धातारं मध्यतः कुर्यात् संवत्सरो वै धाता संवत्सरो हि वा एतस्य मुग्धो ऽथैतस्यामयति संवत्सरं वावास्मा एतन् मध्यतो ऽचीकॢपद् अथैनम् एतस्मान् मिथुनात् प्रजनयतीश्वराणि वा एतम् एतानि छन्दांस्य् ऋते पशोर् अशान्तानि निर्मृजः पशुर् अप्य् आलभ्यः शान्त्या अनिर्मार्गायैते वै पशवो यद् व्रीहयश् च यवाश् च यद् व्रीहिमयः पुरोडाशो भवति तेनैव पशुर् आलभ्यते शान्त्या अनिर्मार्गाय वीरस्था वा अन्ये पशवो ऽवीरस्था अन्ये ये पुरस्तात्पुरोडाशास् ते वीरस्था ये पश्चात्पुरोडाशास् ते ऽवीरस्था ये पुरस्तात्पुरोडाशा भुञ्जतस् त उपतिष्ठन्ते प्रजापतिं ह्य् एते प्रतिष्ठाम् अभ्यसृज्यन्त ये पश्चात्पुरोडाशाः परा ते भवन्ति यासु स्थालीषु सोमाः स्युस् ते चरवः स्युः सोमो वै रेतोधाः प्रजननाय सर्ववेदसेनेजानं याजयेत् पशुभिर् वा एष व्यृध्यते यः सर्वं ददात्य् अत्र वा एष जघन्यं पशून् पश्यति यत्रैनान् विभजति यत्रैवैनान् विभजति तत एनान् पुनर् अवरुन्द्धे य एव कश् च सोमेन यजेत तं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति ॥म्स्_४,३।६॥