सोमेनेजानं याजयेत् संवत्सरं वा एतस्य छन्दांसि यातयामानि भवन्ति यः सोमेन यजते छन्दांसि वै देविकाश् छन्दांसि वावास्मा एतद् अयातयामानि पुनर्यामाणि करोति राजसूयेनाभिषिषिचानं याजयेत् पष्ठौही दक्षिणाशां वा एष उपाभिषिञ्चत आशा पष्ठौह्य् आशाम् एवास्मा अकः पशुकामं याजयेच् छन्दांसि वै देविकाः पशवश् छन्दांसि गायत्र्य् अनुमतिस् त्रिष्टुब् राका जगती सिनीवाली कुहूर् अनुष्टुब् धाता वषट्कारो या पूर्वा पौर्णमासी सानुमतिर् योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूश् चन्द्रमा एव धाता यद् द्वे अवरे द्वे परे तन् मिथुनं यत् पूर्यते ऽन्यां नान्यां तन् मिथुनं यत् पश्यन्त्य् अन्यां नान्यां तन् मिथुनं यद् अमावास्याया अधि चन्द्रमाः प्रजायते तन् मिथुनं तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति प्रजाकामं याजयेद् धातारम् उत्तमं कुर्यात् स्त्रियो वै देविकाः पुमान् धाता पराचीर् वै प्रजा रेतो दधते पराचीष्व् एवासु रेतो दधाति तद् आहुर् न वै तेन पराधत्ते यद् अन्तरा प्रवीयता इति व्यवदध्याद् धातारं मध्यतः सर्वा एवैना वृषमोदिनीः करोति तद् आहुर् जायत एव पश्चाच्चर इव तु भवति स्त्रीभ्यो ह्य् एनं पश्चात् परिणयन्तीति स यदा जायेताथ धात्रे पुरस्तान् निर्वपेद् अग्रं वै धाताग्रम् एवैनं परिणयति ॥म्स्_४,३।५॥