देवाश् च वा असुराश् चास्पर्धन्त स वृत्र इन्द्रम् अब्रवीत् त्वं देवानां श्रेष्ठो ऽस्य् अहम् असुराणां संशक्नवाव मा ना अन्यो ऽन्यं वधीद् इति तौ वै समामेताम् अनभिद्रोहाय ते देवा वृत्रम् अमन्यन्तायं वावेदं भविष्यतीति त इन्द्र ऐछन् हनामेमम् इति सो ऽब्रवीत् सन्धा वै मे संहितान् अभिद्रोहायेति तम् अग्निर् अब्रवीद् अहम् एव त्वेतः पास्यामीति पृथिव्या अहम् अन्तरिक्षाद् इति वरुणो ऽहं दिव इति रुद्रस् ततो वै देवा वृत्रम् अघ्नन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् देवाश् च वा असुराश् च समयतन्त तान् अग्निस् त्रेधात्मानं कृत्वा प्रत्ययतत अग्निर् एवास्मिंल् लोके भूत्वा वरुणो ऽन्तरिक्षे रुद्रो दिवि स इन्द्रो ऽमन्यतायं वावेदं भविष्यतीति सो ऽब्रवीद् अहं विश्वाभ्या आशाभ्या इति ततो वा अजयंस् तज् जित्या एवैतद् एतेनैव याजयेत् सङ्ग्रामे जयति सङ्ग्रामम् एतेनैव याजयेद् भ्रातृव्यवन्तं यो वास्य प्रियः स्यात् तं भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् इन्द्रस् तुरीय उपसमपद्यत तस्माद् इन्द्रतुरीयं धेनुर् अनड्वाही दक्षिणा यद् वहिनी तेनाग्नेयी यद् धेनुः सती दान्ता तेन वारुणी यद् गौस् तेन रौद्री यत् पयस् तेनैन्द्री रूपैर् एवैनां समर्धयतीन्द्रो वै नमुचिं नालभत स रश्मीन् कुलायं कृत्वान्वारोहद् अमुम् आदित्यं तं वा अन्वमन्त्रयत सखाया असावेति सो ऽब्रवीन् नाहं हनिष्यामीति सो ऽब्रवीत् सन्धां ते सन्दधै यथा त्वा न दिवा हनानि न नक्तं न शुष्केण नार्द्रेणेति तस्य वा उपोदये सूर्यस्य नीहारं सन्तत्यापां फेनेन शिरो ऽछिनत् तद् वा एनम् अन्ववर्तत मित्रद्रुग् असीति पाप्मा वै नमुचेः शिरः पाप्मा वा एनं तद् अन्ववर्तत पाप्मानं वै स तेनापाहत तत् पाप्मानम् एवैतेनापहते ऽपां न्ययनाद् अपामार्गान् आहरन्त्य् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै वरो दक्षिणा वरेणैव वरं स्पृणोत्य् आत्मा हि वर आत्मानं हि तस्य तद् अन्ववर्तत ये देवाः पुरःसदो अग्निनेत्रा रक्षोहणस् ते नो ऽवन्तु ते नः पान्तु तेभ्यः स्वाहेत्य् एतद्देवत्या वा इमा दिशो यथादेवतं वा एतद् आभ्यो दिग्भ्यो ऽधि रक्षांस्य् अपहन्त्य् अनुपरिक्रामं जुहोति सर्वाभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपहन्तीदम् अहं रक्षोभिः समूहाम्य् अग्ने सन्दह रक्षः सन्दग्धं रक्षा इत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यय् अथ यत् पुनः समूह्य जुहोति याभ्य एव दिग्भ्यो ऽधि रक्षांस्य् अपावधीत् ता भागिनीः करोत्य् अहिंसायै रथः पञ्चवाही दक्षिणा पञ्च दिशः पञ्च देवताः समृद्ध्यै ॥म्स्_४,३।४॥
असुराणां : ⟨ असुराणाम्
असुराणां : फ़्न् एमेन्देद्। एद्।: असुराणम्।
वधीद् : फ़्न् एमेन्देद्। एद्।: ऽवधीद्।