०२

देवा ओषधीषु पक्वास्व् आजिम् अयुः स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति सो ऽब्रवीद् यतरो नौ पूर्व उज्जयेत् तन् नौ सहेति ता अग्निर् उदजयत् तद् इन्द्रो ऽनूदजयत् तस्माद् ऐन्द्राग्नम् अथो आहुर् आग्नेन्द्रं कार्यम् इत्य् अग्निर् हि ता अग्र उदजयत् तद् उज्जित्या एवाग्रायणो द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सराद् धि तद् अध्य् अभवत् सप्तदश सामिधेनीः कार्याः पञ्च ऋतवो द्वादश मासा एष संवत्सरः संवत्सराद् धि तद् अधि भवत्य् एका वै तर्हि यवस्य मुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य तद् विश्वे देवा अब्रुवन् वयं व एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति तद् विश्वे देवा अप्रथयंस् तद् भूम्न एव वैश्वदेवो ऽथो प्रथयत्य् एवैतेन पयसि स्याद् वैश्वदेवो वैश्वदेवं हि पयो ऽथ वा इयम् अब्रवीन् मयि वा एतद् अध्य् असौ वृष्ट्या पचति नैतद् इतो ऽध्य् उज्जेष्यथ भागो ना अस्त्व् इति तद् आभ्यां वावैष भागः क्रियत उज्जित्यय् अथो प्रतिष्ठित्या एव यद् द्यावापृथिवीयः सौमीर् वा ओषधयः सोमा ओषधीनाम् अधिराजस् तस्य वा एष भागो यद् अकृष्टपच्यं तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजते ग्राम्या वा अन्या ओषधय आरण्या अन्यास् ता एवास्यैतेनोभयीर् अवेष्टा भवन्ति याः फालकृष्टास् तासाम् एतेनाग्रायणं करोति या आरण्यास् तासाम् उत्तरेणानीतो वा एष देवानां य आहिताग्निर् यद् अकृत्वाग्रायणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अश्नीयाद् आर्तिम् आर्छेत् सर्वेभ्यो वा एषो ऽन्येभ्यो ऽभिषिच्यते यो राजसूय आग्रायणो ऽन्नाद्यस्यावरुद्ध्यै वत्सः प्रथमजो दक्षिणा रेत इव ह्य् एषो ऽप्रजातः प्रजात्यै ॥म्स्_४,३।२॥