अरातीयन्ति वा अन्ये पुरुषाय नान्ये ये ऽरातीयन्ति सा निरृतिर् ये नारातीयन्ति सानुमतिस् तेभ्य उभयेभ्यः सह निर्वपन्त्य् उभौ सह शृतौ कुर्वन्ति नैरृतेन पूर्वेण प्रचरन्ति दक्षिणा परेत्य स्वकृता इरिण एतद् वै निरृतिगृहीतं पृथिव्या निरृतिगृहीत एव निरृतिं निरवदयत एकोल्मुकं निधाय विस्रंसिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर् वेतु स्वाहा वासः कृष्णं भिन्नान्तं दक्षिणेत्य् एतद् धि निरृत्या रूपम् अर्धं वै पुरुषस्य निरृतिगृहीतम् अर्धम् अनिरृतिगृहीतं यन् निरृतिगृहीतं तद् एवास्मात् तेन निरवदयते पुनर् एत्यानुमत्या अष्टाकपालेन प्रचरन्ति निरृतिम् एव निरवदायेयं वा अनुमतिर् वाग् वय् अनुमतम् एवैनं सवम् आक्रमयत्य् अष्टाकपालो भवति गायत्री हीयं गायत्री वाग् धेनुर् दक्षिणैतद् ध्य् अनुमत्या रूपम् अथ य उदञ्चः शम्याम् अतिशीयन्ते तान् उदङ् परेत्य वल्मीकवपाम् उद्रुज्य जुहुयाद् इदम् अमुष्यामुष्यायणस्य क्षेत्रियम् अवयजा इति तत् पुनर् अपिदधातीदम् अहम् अमुष्यामुष्यायणस्य क्षेत्रियम् अपिदधामीति क्षेत्रियं वा एतं गृह्णाति ये चैनम् अन्व् इयं क्षेत्रस्य पत्न्य् अस्याम् एव क्षेत्रियम् अवयज्याथैनं सवम् आक्रमयति श्वो भूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुर् इत्य् आदित्या वा इत उत्तमाः स्वर्गं लोकम् आयंस् तेभ्य एव प्रोच्य स्वर्गं लोकम् एत्य् आदित्या वा अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् उभयोर् एव लोकयोर् ऋध्नोति वरो दक्षिणा वरेणैव स्वर्गं लोकम् अभ्यारोहति श्वो भूत आग्नावैष्णव एकादशकपाला इत्य् अग्निर् वै सर्वा देवता विष्णुर् यज्ञो देवताश् चैव यज्ञं चालब्धाग्निर् वै यज्ञस्यान्तो ऽवस्ताद् विष्णुः परस्ताद् उभयत एव यज्ञस्यान्ता उदग्रहीद् उभयत एव यज्ञस्यान्ता उद्गृह्य यथोत्सङ्ग आवपेतैवं वा एतद् यज्ञम् आवपते तस्य यथाकामं निर्वपमाण एत्य् अनड्वान् वामनो दक्षिणा यद् वही तेनाग्नेयो यद् वामनस् तेन वैष्णवो रूपेणैवैनं समर्धयति श्वो भूते ऽग्नीषोमीया एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् वृत्रं खलु वा एष हन्ति यो राजसूयेनाभिषिञ्चते तद् वार्त्रघ्नम् एवैतद् धिरण्यं दक्षिणा सत्यं वै हिरण्यं सत्येनैव हन्ति श्वो भूत ऐन्द्राग्न एकादशकपाला इत्य् अग्नीषोमाभ्यां वै वीर्येणेन्द्रो वृत्रम् अहन् स ओजसा वीर्येण व्यार्ध्यत स एतम् ऐन्द्राग्नम् अपश्यत् तेनौजो वीर्यम् आत्मन्न् अधत्तौजसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चत ओजो वीर्यम् इन्द्राग्नी ओजसैवैनं वीर्येण समर्धयतो ऽनड्वान् ऋषभो दक्षिणा यद् वही तेनाग्नेयो यन् मुष्करस् तेनैन्द्रो रूपेणैवैनं समर्धयति श्वो भूत आग्नेयो ऽष्टाकपालो माहेन्द्रं दधीत्य् ऋद्ध्या एवाग्नेय इन्द्रो वै वृत्रम् अहन् सो ऽन्यान् देवान् अत्यमन्यत स महेन्द्रो ऽभवत् स एतम् उद्धारम् उदहरद् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा सङ्ग्रामं जित्वोदाजम् उदजयत् पयसा वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यत् पयः पयसैवैनं समर्धयतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिञ्चते यद् ऐन्द्रम् इन्द्रियेणैवैनं वीर्येण समर्धयति देवताभिर् वा एष व्यृध्यते यो राजसूयेनाभिषिञ्चते सर्वदेवत्यं वै वासो यद् वासः क्षौमं दक्षिणा देवताभिर् एवैनं समर्धयति ॥म्स्_४,३।१॥
वै : फ़्न् एमेन्देद्। एद्।: वा