यो ललामः शितिपाञ् शितिककुञ् शितिभसञ् शितिवालः साशारिः सामक्ताष्टयूथा प्राष्टौ यूथान्य् आप्नोति यस्य तादृङ्ङ् ऋषभो भवति यस्य वालतुषः प्रतिष्ठितः सा प्रतिष्ठिता प्रति प्रजया च पशुभिश् च तिष्ठति यस्य तादृङ्ङ् ऋषभो भवति यः समन्तः शितिबाहुः सा समन्ता समन्तः प्रजया च पशुभिश् च भवति यस्य तादृङ्ङ् ऋषभो भवति यः शितिपृष्ठः सा तन्तिः पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवत्य् अथ यस्यैकरूपस्य सतो लक्ष्म भवति सादारसृन् नास्यामित्रो गा विधावति यस्य तादृङ्ङ् ऋषभो भवति याजलोम्नी सा पोषयिष्णुर् अजा इव प्रजायन्ते यस्य तादृङ्ङ् ऋषभो भवति या श्यामा सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्त्य् अपनिषादुकास् तु यारुणा सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्ति हिमेरवस् तु या श्वेता सा पोषयिष्णुः क्षिप्रं बह्वीर् भवन्ति दुश्चर्माणस् तु नाञ्जिः कार्यो न पृश्निर् अमिथुनं तद् अथो व्याघ्ररूपं वै पृश्निर् बिभ्यत्य् अस्मात् पशवः कनीयांसो ऽस्य पशवो भवन्ति यस्य तादृङ्ङ् ऋषभो भवति तद् आहुर् बीजम् एवोत्सृज्यम् इत्य् एतद् वा आसां बीजं यद् रोहितं रूपं पशुमान् भवति यस्य तादृङ्ङ् ऋषभो भवति यो धूम्रस् ताम्रधूम्रः स प्रजापतिः प्र प्रजया च पशुभिश् च जायते यस्य तादृङ्ङ् ऋषभो भवति यस्य लोमशा ककुत् स स्तम्बी स्तम्बीव प्रजया च पशुभिश् च भवति यस्य तादृङ्ङ् ऋषभो भवति यस्योर्ध्वा ककुत् ता ऊर्ध्वा आप्यायन्त ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति यस्य दक्षिणतः पन्नं सा पापी सा स्रवन्त्य् अथ यस्य सव्यत उन्नतं सा पुण्या सोपाहरन्ती या उत्पृष्टिस् ता ऊर्ध्वा आप्यायन्त ऊर्ध्वा अस्य पशवा आप्यायन्ते यस्य तादृङ्ङ् ऋषभो भवति यस्य सव्यतः पन्नं सा पापी सा स्रवन्त्य् अथ यस्य दक्षिणत उन्नतं सा पुण्या सोपाहरन्ती या सव्यसाचिनी सा पुण्या सोपाहरन्ती या संशृङ्गी सा गोष्ठस् तां न प्रछिन्द्याद् अनुसृष्टस्य गोषु स्याताम् एतौ वै पशूनाम् अस्कन्नं हविर् अस्कन्नम् अस्य हविर् भवति यस्यानुसृष्टिर् गोषु भवत्य् उक्षा चास्य वेहच् च गोषु स्याताम् एतौ वै पशूनाम् ऊर्जं बिभृतो ऽक्षोधुका अस्य पशवो भवन्ति यस्योक्षा च वेहच् च गोषु भवतः ॥म्स्_४,२।१४॥