१३

उभयेषां त्वा देवमनुष्याणां प्रियां करोमि ॥ इति तस्माद् एषोभयेषां देवमनुष्याणां प्रियैतेनैव श्रोत्रियस्य मुखं विमृज्याद् उभये ह्य् एतं देवमनुष्या विदुर् एतेन कुमार्या एतेन पतिकामाया एतद् वै गोवर्चसं न सर्वस्मा इव कुर्याद् यस्मै तु कुर्यात् तेजस्वी स्यात् ॥म्स्_४,२।१३॥