१२

प्रजापतिर् वै त्रीन् महिम्नो ऽसृजताग्निं वायुं सूर्यं ते चत्वारः पितापुत्राः सत्त्रम् आसत ते स्वेदं समवौक्षंस् तद् अभवत् तद् वा अस्यैतन् नामाभूद् इति सर्वम् अभूद् इति तद् वा अस्यैते नामनी क्रूरे अशान्ते तस्माद् एते न ग्रहीतव्ये क्रूरे ह्य् एते अशान्ते प्रजापतिर् वै स्वां दुहितरम् अभ्यकामयतोषसं सा रोहिद् अभवत् ताम् ऋश्यो भूत्वाध्यैत् तस्मा अपव्रतम् अछदयत् तम् आयतयाभिपर्यावर्तत तस्माद् वा अबिभेत् सो ऽब्रवीत् पशूनां त्वा पतिं करोम्य् अथ मे मा स्था इति तद् वा अस्यैतन् नाम पशुपतिर् इति तम् अभ्यायत्याविध्यत् सो ऽरोदीत् तद् वा अस्यैतन् नाम रुद्र इति ते वा अस्यैते नामनी शिवे शान्ते तस्माद् एते कामं ग्रहीतव्ये शिवे ह्य् एते शान्ते ततो यत् प्रथमं रेतः परापतत् तद् अग्निना पर्यैन्द्ध तद् आसाम् अघ्न्यात्वं ततो यद् अत्यस्रवत् तद् बृहस्पतिर् उपागृह्णात् तद् आसाम् उस्रियात्वम् अशकामेति तद् आसां शक्वरीत्वं गातुम् अविदामेति तद् आसां गोत्वम् एतानि वा आसां नामानि सर्वैर् एवासां नामभिः सर्वैः कामैर् भुङ्क्ते य एवं वेद पशवो वै सृष्टा एतानि नक्षत्राण्य् अन्वपाक्रामन् पौर्णमासीम् अष्टकाम् अमावास्यां चित्राम् अश्वत्थं तस्मात् तेषु गौर् नापाकृत्या याम् अपाकुर्यात् ताम् अस्य पशवो ऽन्वपक्रामेयुः ॥म्स्_४,२।१२॥

देवा वै सर्वे सहान्तर्वन्तो ऽभवंस् ते सर्वे सह व्यजायन्त तद् एकवृद् अशयत् संवृत्तं तद् देवा इत्थं चेत्थं च व्यत्यचरंस् तन् मित्रावरुणा अचायतां स्याद् वै य एनद् विकुर्याद् इति तद् गां द्विपदीम् अकुरुतां सा न प्रत्यतिष्ठत् तस्या अन्यत आहृत्येर्मौ प्रत्यधत्तां तस्माद् एता अबद्धा अस्थन् सा चतुष्पदी भूत्वा प्रत्यतिष्ठत् प्रति प्रजया च पशुभिश् च तिष्ठति य एवं वेद तस्यां वै पयः पर्यपश्यंस् तां देवा अदुह्र हरितेन पात्रेण यज्ञं चामृतं च दुहे यज्ञं चामृतं च य एवं वेदाथ पितरो ऽदुह्र रजतेन पात्रेणोर्जं च स्वधां च दुह ऊर्जं च स्वधां च य एवं वेदाथ मनुष्या अदुह्र दारुपात्रेणान्नं च प्रजां च दुहे ऽन्नं च प्रजां च य एवं वेदाथा ऋषयो ऽदुह्र चमसेन छन्दांसि च पशूंस् च दुहे छन्दांसि च पशूंश्च य एवं वेदाथ गन्धर्वाप्सरसो ऽदुह्र पुष्करपर्णेन पुण्यं गन्धं दुहे पुण्यं गन्धं य एवं वेदाथ सर्पा अदुह्रालापुना विषं दुहे भ्रातृव्याय विषं य एवं वेदाथासुरा अदुह्रायस्पात्रेण स्रवता भूतिं च पराभूतिं च दुहे भ्रातृव्यायाभूतिं च पराभूतिं च य एवं वेद तां वा इन्द्रो ऽनयैवोपासीदतेदं सर्वम् अदुहद् यद् इदं किञ्च तां दुग्ध्वा प्रत्यनुदत सा प्रतिनुत्ता कुमना अतिष्ठद् ध्यायन्ती तां प्रजापतिर् अचायद् ध्यायति वा इति सो ऽब्रवीत् किं ध्यायसीति साब्रवीद् ये माधुक्षत ते मा प्रत्यनुदन्तेति सो ऽब्रवीन् मा सूर्क्षस् तथा वै त्वा कर्ष्यामि यथोभयेषां देवमनुष्याणां प्रिया भविष्यसीति तस्या घृतं पद्भ्यो ऽक्षरत् तस्य घृतस्यादाय मुखं व्यमार्ट् ॥