११

रोहिणीर् वो वृञ्जे गायत्रेण छन्दसारुणा वो वृञ्जे त्रैष्ट्भेन छन्दसा गौरीर् वो वृञ्जे जागतेन छन्दसा बभ्रुवो वो वृञ्जा आनुष्टुभेन छन्दसा गर्भान् वो वृञ्जे वृञ्जे पाङ्क्तेन छन्दसा रूपाणि वो वृञ्जे शाक्वरेण छन्दसा सर्वान् वो वृञ्जे ऽनाप्तेन छन्दसा तत् सप्त सप्तपदा शक्वरी शाक्वराः पशवः पशून् एवावरुन्द्धे गायत्री प्रथमा गायत्र्य् उत्तमा तेजो वै गायत्री ब्रह्मवर्चसं तेजसा च वावास्मा एतद् ब्रह्मवर्चसेन चोभयतः पशून् परिगृह्णाति ॥म्स्_४,२।११॥