१०

इत्य् ऋषभस्य कर्ण उत्सृजमानो वदेद् रेतोधाम् एवैनं यशोधां रायस्पोषायोत्सृजते यो वैश्यः शूद्रो वा बहुपुष्टः स्यात् तस्य गवां गोष्ठाद् एकविंशतिं शकान्य् आहृत्यैकविंशतिम् आहुतीर् जुहुयाद् एकविंशतिर् वै मनुष्यलोका मनुष्यलोकेभ्य एवास्मै पशून् अवरुन्द्ध एतैर् एव जुहुयात् गोनामैर् अग्रेत्वर्या गोर्भसदि पशुकामो मुखं वा एष पशूनां मुखत एवास्मै पशून् निनयति ॥म्स्_४,२।१०॥

यासाम् इन्द्र उदाजत वसु नाम रूपं पशूनाम् उषसं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां बृहस्पतिर् उदाजतेडा नाम रूपं पशूनां सङ्गवं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां मरुत उदाजन्त ज्योतिर् नाम रूपं पशूनां मध्यन्दिनं धाम पश्यमानाः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयात् ॥

यासां प्रजापतिर् उदाजतायुर् नाम रूपं पशूनाम् अपराह्णं धाम पश्यमानः ॥ तासाम् अयं योनिर् अयं गोष्ठ इह रयिः पुष्टिः ॥ स्वाहा ॥ इति जुहुयाद् एतानि वा अह्नो रूपाण्य् एतेषु वा अह्नो रूपेषु देवाः पशूनां रूपाण्य् अवृञ्जत तद् एतेष्व् एवाह्नो रूपेषु यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते घृतेन जुहोति पशवो वै घृतं पशुभिर् एव पशून् वृङ्क्ते तन् न सूर्क्ष्यं प्रातर् एवान्तर्गोष्ठासु गोषु होतव्यं सर्वा एनाः सहावरुन्द्ध एतैर् एव जुहुयाद् गोष्व् आकृतासु योनितो वा एतत् पशून् अग्रहीद् अपिहीनाः परिपरिणस् कृण्वन्त्य् एतैर् एव जुहुयात् सङ्ग्रामे ऽथाश्वान् अभिमन्त्रयेत ॥

मित्रभृतः क्षत्रभृता ओजोभृतो बलभृतो वयं जयेम वयं सहेम वयं भवेम वयं पुषेम ॥

इति जयति सङ्ग्रामम् ॥