०९

कुरुत इति ब्रूयान् नान्तर्वत्नीति ब्रूयाद् विजन्या इति ब्रूयाद् भुवनम् असि सहस्रम् इन्द्राय त्वा सृमो ऽददात् ॥ इति सृमो वै नामासुर आसीत् तस्येयं पृथिवी पशुभिः पूर्णासीत् तान् इन्द्रो ऽवृङ्क्त तस्माद् आहुर् ऐन्द्राः पशवा इति यावतीनाम् इदं करोमि भूयसीनाम् उत्तरां समां क्रियासम् ॥ इति गवां लक्ष्म कुर्याद् भूयसीनाम् एवोत्तरां समां करोति पशवो वै सृष्टा एकैकं नक्षत्रम् उपातिष्ठन्त तेन प्राजायन्त न भूमानम् अगछंस् तस्माद् यत् किञ्च पशूनां कुर्वीत तद् रेवत्यां कुर्वीतोप ह्य् एनं पशवस् तिष्ठन्ति प्रास्य पशवो भवन्ति य एवं वेद यस्य दक्षिणतः प्रतिभिन्नं दक्षिणत उपाश्चरत् तत् त्वष्टुर् लक्ष्म देवलक्ष्मं यज्ञियं यज्ञकामः कुर्वीतोप ह्य् एनं यज्ञो नमति यस्योभयतः प्रतिभिन्नम् उभयत उपाश्चरत् तद् गायत्रं लक्ष्म पशव्यं पशुकामः कुर्वीत पशुमान् भवति यस्योभयतः प्रतिभिन्नम् उभयत उपाश्चरत् तत् त्रैष्टुभं लक्ष्म पूतस्य रूपं प्रतिष्ठाकामः कुर्वीत गछति प्रतिष्ठां वसिष्ठस्य स्थूणाकर्ण्यो वसिष्ठो वै रयिम् अपश्यत् ताम् आत्मन्न् अधत्त यत् स्थूणाकर्णीः कुरुते पशुष्व् एव रयिं धत्ते जमदग्नेः कर्करिकर्ण्यो जमदग्निर् वै पुष्टिम् अपश्यत् ताम् आत्मन्न् अधत्त यत् कर्करिकर्णीः कुरुते पशुष्व् एव पुष्टिं धत्ते ऽसुराणां सास्नाकृत्यः क्षिप्रं बह्वीर् भवन्ति क्षिप्रं पराभवन्त्य् अमेध्याः कर्णाः क्षिप्रं बह्वीर् भवन्ति यज्ञस् त्व् एनान् अनूपनमतीव निरृत्याः छिद्रकर्ण्यो यच् छिद्रकर्णीः कुर्वीत निरृतिर् अस्य पशोर् निगृह्णीयान् न प्रछिन्द्या कर्ण्यः कार्या न दात्राकर्ण्यः पराचीनम् इव हि तन् निवृत्तम् अगस्त्यस्य विष्ट्यकर्ण्यः कश्यपस्य कम्बुन्युद्धता इन्द्रस्याक्लस्ता अथो आहुः प्रजापतेर् इत्य् उभयं ज्येष्ठलक्ष्मं ज्यैष्ठ्यकामः कुर्वीत प्र समानानां ज्यैष्ठ्यम् आप्नोति प्रजापतिः पशून् असृजत स वा असृग् एव नासृजतासृष्टं वा एतत् तद् अस्नो ऽसृक्त्वं क्रूरं पशूनां कार्ष्या इति वै सो ऽसृग् नासृजत क्रूरं वा एष पशूनां कुरुते यो ऽक्ष्णुते यद् अक्षितास् तेनाक्षिता अथ यद् अनक्षिता इति श्रूयन्ते तेनाक्षितास् तद् आहुर् न वा एतम् एता अमुत्रागछन्ति या अनक्षिता इति तस्माद् अक्षितव्या न तेजनेनाक्ष्णुयाद् वज्रो वै तेजनं यत् तेजनेनाक्ष्णुयाद् वज्रेण पशून् अर्पयेन् न श्यामेनायसा क्रूरं तद् अशान्तम् इक्षुकाण्डम् अप्सु वासयित्वा तेनाक्षितव्यास् तद् धि शिवं तञ् शान्तम् अथो आहुर् लोहितेनायसेति तद् धि शिवं तञ् शान्तम् ॥म्स्_४,२।९॥
कम्बुन्युद्धतास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इह प्रजा विश्वरूपा रमन्ताम् अस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।
अग्निं कुलायम् अभि संविशन्तीः समासृजन्तु पयसा घृतेन ॥

इति गाः सायम् आयतीर् अभिमन्त्रयेताग्निर् वा एतासां योनिर् अग्निः कुलायं स्व एवैना योनौ स्वे कुलाये संवेशयति नास्य पशवो नक्तम् आर्तिम् आर्छन्ति य एवं वेद ॥

सं वः सृजत्व् अर्यमा सं पूषा सं बृहस्पतिः ।
सम् इन्द्रो यो धनञ्जयः ।
सञ्जग्माना अविह्रुता अस्मिन् गोष्ठे पुरीषिणीः ।
स्वावेशा ना आगत ॥
पूषा : फ़्न् एमेन्देद्। एद्।: पोषा।

इति गाः संसृजेद् या अस्य पुरा स्युर् याश् चान्यतो विन्देत पशवो वै घृतम् अग्नी रुद्रो यज् जुहुयाद् रुद्रायास्य पशून् अपिदध्यात् तत् संसृज्या एवोभयीर् ह भूयसीर् भवन्ति सं वः सृजत्व् अर्यमेति यज्ञो वा अर्यमा यज्ञेनैवैनाः संसृजति सं पूषेति पुष्टिर् वै पूषा पुष्ट्यैवैनाः संसृजति सं बृहस्पतिर् इति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनाः संसृजति सम् इन्द्रो यो धनञ्जय इतीन्द्रियं वा इन्द्र इन्द्रियेणैवैनाः संसृजति रेवती तन्तिः पृथिवी माता रेवतीर् आपा ओषधयः ॥

ता नो हिन्वन्तु सातये धिये जुषे ॥

इति तन्तिं वितनुयात् ताम् अनुमृज्यात् ॥ रय्या त्वा पुष्ट्यानुमार्ज्मि ॥ इति रय्यैवैनां पुष्ट्यानुमार्ष्टि तस्या व्रतं न रिक्ता स्यान् नोपर्युपरि सञ्चरेयुर् नाभिवर्षेन् नाभितपेद् एतद् वै बस्तो रामकायनो विदाञ्चकार तन्त्या वितननं स सहस्रं पशून् प्राप प्र सहस्रं पशून् आप्नोति य एवं वेद ॥

पिता वत्सानां पतिर् अघ्न्यानाम् उतायं पिता महतां गर्गराणाम् ।
रेतोधां त्वा यशोधां रायस्पोषायोत्सृजेत् ॥