०८

पुण्या पुण्याम् असूच् चित्रा चित्राम् असूद् ऐडी मे भगवत्य् अजनिष्ठा मैत्रावरुणी रायस्पोषेण मे भगवती सह जनिष्ठा ज्ञात्रं मे विन्द ॥ इति स्त्रियं जातां रायस्पोषेणैवास्मै सह जायते गछति पशूनां ज्ञात्रं ये प्राचीनम् एकाष्टकाया जायन्ते पूर्वस्य ते सस्यस्योत्तमा ये प्रतीचीनम् अपरस्य ते सस्यस्य प्रथमास् तान् उभयान्त् सहाभिमन्त्रयेतोभयान् एनान्त् सहावरुन्द्धे ॥म्स्_४,२।८॥
ऐडी : फ़्न् एमेन्देद्। एद्।: दैडी

यो वै शक्तिं वेद स तञ् शक्नोति यञ् शिक्षतीयं वै शक्तिर् यो वा अस्या भूयिष्ठभाग् भवति स तञ् शक्नोति यञ् शिक्षति भूयिष्ठभाग् घ वा अस्या भवति य एवं वेद पशवो वै शक्तिर् यो वै पशूनां भूयिष्ठभाग् भवति स तञ् शक्नोति यञ् शिक्षति भूयिष्ठभाग् घ वै पशुमान् भवति य एवं वेद तस्या व्रतं न हतेति ब्रूयात् ॥