आयुर् मे दा वर्चो मे दा रयिं मे दाः पुष्टिं मे दाः ॥ इति रयिम् एवास्य पुष्टिं हरति तम् इतो ऽभिसृज्याथेतो ऽत्याह्वयेद् वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्या अत्याह्वयति नास्य किञ्चनोदशिषद् ग्रामकामं याजयेत् सारस्वत ऋग्भ्यां संवत्सरो वै सरस्वान् संवत्सरेणैवास्मै ग्रामं च्यावयति वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्या अत्याह्वयति पशुकामं याजयेत् सारस्वत ऋग्भ्यां संवत्सरो वै सरस्वान् संवत्सरेणैवास्मै पशूंश् च्यावयति वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्मा अत्याह्वयति सर्वासां दुग्धे चतुःशरावम् ओदनं पचेद् ब्राह्मणेभ्यः पशुकामो यच् चतुःशरावो दिग्भ्य एवास्मै तेन पशून् अवरुन्द्धे यद् ब्राह्मणेभ्यो ब्रह्मणस् तेन न छिन्नं देयं पशुकाम इव ह्य् एष वासो हिरण्यं वा देयम् ईजानस्यास्य पशवो भूयांसो भवन्ति ॥म्स्_४,२।७॥
प्रजापतिर् वै न व्याहरत् स आत्मन्य् एव पुण्यम् आयछद् आत्मनः पुण्यं न निरवदद् एतद् वै तद् यजुर् वदन् नान्यथा ब्रूयात् ॥
पुण्यं प्रशस्तम् ॥ इति ब्रूयाद् आत्मन्य् एव पुण्यं यछत्य् आत्मनः पुण्यं न निर्वदति याम् अदानीयाय ददाति ताम् अस्य पशवो ऽन्वपक्रामन्ति यदि मन्येतादानीयायादाम् इत्य् एतद् एव यजुर् वदेन् नमे तद् उपदम्भिषर् धृषिर् ब्रह्मा यद् ददा इति तद् एवैतेनापूरयति तद् आप्याययति समुद्र इव ह वा अस्य व्यच्य मानो न क्षीयते य एवं वेद ॥
मानो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
वीरवतीर् भूयास्त या नो वीरवतो ऽकर्त ॥ इति पुमांसं जातम् अभिमन्त्रयेत ॥
भूयसीर् भूयास्त या नो भूयसो ऽकर्त ॥ इति स्त्रियं जाताम् ॥
अन्नादा भूयास्त ये नो ऽन्नादान् अकर्त ॥ इति बलिहृतो ऽभिमन्त्रयेत ॥
भूयांसो भूयास्त ये नो भूयसो ऽकर्त ॥ इति सभासदः पादौ प्रत्यवहरेद् एते वै पशव उपोप ह वा एनं पशवो यन्ति नापयन्ति य एवं वेद ॥
पुण्या पुण्यम् असूच् चित्रा चित्रम् असूद् ऐडो मे भगवो ऽजनिष्ठा मैत्रावरुण ऊर्जा मे भगवः सह जनिष्ठाः संविदं मे विन्द ॥ इति पुमांसं जातम् अभिमन्त्रयेतोर्जैवास्मै सह जायते गछति पशूनां संविदम् ॥
ऐडो : फ़्न् एमेन्देद्। एद्।: दैडो