वसीयस्य् एहीति ब्रह्म वै वसीयो ब्रह्म वा एतद् अत्याह्वयति श्रेयस्य् एहीति क्षत्रं वै श्रेयः क्षत्रं वा एतद् अत्याह्वयति भूयस्य् एहीति विड् वै भूयसी विशं वा एतद् अत्याह्वयति चित्ता एहीति मनो वै चित्तं मनो वा एतद् अत्याह्वयति दधृष्य् एहीति वाग् वै दधृषि वाचं वा एतद् अत्याह्वयतीडा एहीति पशवो वा इडा पशून् वा एतद् अत्याह्वयति सूनृता एहीत्य् अन्नं वै सूनृतान्नं वा एतद् अत्याह्वयत्य् एता वै सप्त देवगव्यस् ताः क्रीतो वैतहोत्रो विदाञ्चकार ताभिर् अदः कुरूणां कौन्ते पशून् अत्याह्वयत् ताः कुरवो ब्राह्मणेष्व् अन्वैछंस् ताः कुमारवत्याश्वदक्षिणा अविन्दन् सो ऽब्रवीन् मा सूर्क्ष्यतैताभिर् वा अहम् एता अत्याह्वयिष्यामीतराभिर् इतरा यानि खलु वा एतासां प्रियाणि धामानि तानि क्रीतो न वेदेति स संयत्ते सङ्ग्रामे छदिर्दर्श एताभिर् एवैता अत्याह्वयिष्यामीतराभिर् इतरा यतरत्र खलु वा एता अत्याहूयन्ते तत् पशवो ऽभिसङ्क्रामन्ति यत्र पशवस् तद् देवा यत्र देवास् तद् इन्द्रो यतरान् वा एते ऽभिसङ्क्रामन्ति ते जयन्ति जयति सङ्ग्रामम् ॥म्स्_४,२।६॥
सा वै सृष्टोभयान् देवमनुष्यान् अत्यमन्यत तां देवा दर्शपूर्णमासाभ्याम् उपप्रास्तृणत तां वा एतद् आप्नुवन् यद् इडां तां वा एतद् आप्त्वा हरन्तो मन्यन्ते यद् इडाम् उपह्वयन्ते यर्हि तूष्णीम् उपह्वयेत तर्ह्य् एताः सप्त वदेद् यर्ह्य् उच्चैस् तर्ह्य् उत्तराः सप्त धामधाम् आसां वर्णंवर्णम् उपगछत्य् आ ह वा एनम् अप्रतिक्शातं गछति य एवं वेद यत्र समूला ओषधीर् उपगछेत् पशून् वा तद् एता एव सप्त वदेद् धामधाम् आसां वर्णंवर्णम् उपगछत्य् आ ह वा एनम् अप्रतिक्शातं गछति य एवं वेद सप्त स्थावीर्येण याजयेद् यस्य सप्त स्थविराश् चरमा अन्तमा स्युर् वसीयस्य् एहि श्रेयस्य् एहीत्य् एतदेतद् एवास्मा अत्याह्वयति यो वैश्यः शूद्रो वा बहुपुष्टः स्यात् तस्य गवां साण्डं वत्सतरम् अपगमयेत ॥
समूला : फ़्न् एमेन्देद्। एद्।: स मूला
स्थावीर्येण : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
चरमा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अपगमयेत : फ़्न् एमेन्देद्। एद्।: अपमयेत। च्फ़्। मान्श्स्।९।५।५।२१।
इलान्दाः स्थ ॥ इति इलान्दा हि पशवः पूष्णो नक्षत्रं पोषयिष्णु ॥ इति विश्येषु वा एतच् चरति पूष्णो नक्षत्रं पोषयिष्णु तद् एवापधापयते तम् अपाकुर्वीत ॥