यज्ञो वै पशूनाम् आयतनं स्वे वा एतद् आयतने यजमानो भ्रातृव्यस्य पशून् वृङ्क्ते ऽनपक्रामुका अस्मात् पशवो भवन्ति ॥म्स्_४,२।४॥
वसीयस्य् एहि श्रेयस्य् एहि भूयस्य् एहि चित्ता एहि दधृष्य् एहीडा एहि सूनृता एहि चिद् असि मनासि धीर् असि वस्वी रन्तिः सुमनाः ॥
सूनरि विश्वा त्वा भूतानुप्राणन्तु विश्वा त्वं भूतानुप्राण भूयस्य् आयुर् असीष्टिर् असि सरूपवर्षा एहि ॥
एमाम् अनु सर्पतेमौ भद्रौ धुर्या अभि ।
नीव शीर्षाणि मृढ्वम् ॥
सा नः सुप्रतूर्तिः प्रिया नः सुहार् णः प्रियवनिर् मघवनिर् अन्ता एहि जुष्टा एहीदा एह्य् अदिता एह्य् उपहूत उपहवं ते ऽशीय सुहवा ना एहि सह रायस्पोषेण देवीर्देवीर् अभि मा निवर्तध्वम् ॥
स्योना स्योनेन घृतेन मा समुक्षत ॥
नमे तद् उपदम्भिषर् धृषिर् ब्रह्मा यद् ददौ ।
समुद्राद् उदजनि वः स्रुचा ॥