०३

प्रशस्ताः स्थ कल्याण्यः ॥ इतीयं वा एषेमां वा एतत् सभागयत्य् अत्रासुका अस्मात् पशवो भवन्ति य एवं वेद देवाश् च वा असुराश् चास्पर्धन्तादितिर् देवेष्व् आसीत् कुस्तासुरेषु ते देवा अमन्यन्त यद्य् अभिजेष्यामः कुस्तायाः शिरा आहनिष्यामा इति यद्य् अभिजेष्यामा इत्य् असुरा अमन्यन्तादित्याः शिरा आहनिष्यामा इति तां देवा अभिजित्याघ्नत यस्य वै जितं यस्य विजितं तस्यैषा गृहे हन्यत एषा वै क्षुत् क्षुधं वा एतद् धते तद् य एवं विद्वान् एकाष्टकायां गां हते संवत्सरायैव क्षुधं हते प्रजापतिर् वा एक आसीत् सो ऽकामयत बहुम् अनु स्यां प्रजायेयेति स आत्मानम् ऐट्ट स मनो ऽसृजत तन् मन एकधासीत् तद् आत्मानम् ऐट्ट तद् वाचम् असृजत सा वाग् एकधासीत् सात्मानम् ऐट्ट सा विराजम् असृजत सा विराड् एकधासीत् सात्मानम् ऐट्ट सा गाम् असृजत सा गौर् एकधासीत् सात्मानम् ऐट्ट सेडाम् असृजत सेडैकधासीत् सात्मानम् ऐट्ट सेमान् भोगान् असृजत यैर् अस्या इदं मनुष्या भुञ्जत एते वा अस्या भोगाः सर्वैर् एकास्या भोगैः सर्वैः कामैर् भुङ्क्ते य एवं वेद गौर् वै वाग् गौर् विराड् गौर् इडा गौः खल्व् एव गौर् गौर् इदं सर्वं सर्वा ह वा एनम् एताः श्रयन्ते य एवं वेद यद् वै तद् आत्मानम् ऐट्ट सेडाभवत् तद् इडाया इदात्वं स यस् तद् इडाया इडात्वं वेदेट्टे ह वै स्वम् आत्मानं भूत्यै ॥म्स्_४,२।३॥

या रोहिणी ताम् अरुणा तां गौरी तां बभ्रूः ॥

तद् इन्द्रा उदाजत वसुर् नाम रूपं पशूनाम् ॥

विन्दते वसु न वसु रुणद्धि य एवं वेद या शितिपृष्ठा तां मन्दिस् तां मेनी तां शबली तां शितिबाहुस् तां शुद्धवाला ॥

तद् बृहस्पतिर् उदाजतेडा नाम रूपं पशूनाम् ॥

बह्वीर् ह वा एनम् इडाः श्रयन्ते य एवं वेद या पृषती तां पिशङ्गी तां सारङ्गी तां कल्माषी तां पृश्निस् तां श्वेता ॥

तन् मरुता उदाजन्त ज्योतिर् नाम रूपं पशूनाम् ॥

ज्योतिष्मान् भवति य एवं वेद या सुरूपा तां श्याता तां श्येनी तां कृष्णा ॥

तत् प्रजापतिर् उदाजतायुर् नाम रूपं पशूनाम् ॥

आयुष्मान् भवति य एवं वेद चतस्रः प्रथमाश् चतस्र उत्तमा द्विः षण् मध्यतस् ता द्विर् दश दशाक्षरा विराड् वैराजाः पशवः पशून् एवावरुन्द्धे ॥

वस्व्यै हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् बहिःपवमानस्य वदेत् ॥

इडायै हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् आज्यानां वदेत् ॥

ज्योतिषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्तान् माध्यन्दिनस्य पवमानस्य वदेत् ॥

आयुषे हिङ्कुरु तस्यै प्रस्तुहि तस्यै मे ऽवरुद्ध्यै ॥ इति पुरस्ताद् आर्भवस्य पवमानस्य वदेत् ॥