काम्यायै स्वाहा श्रव्यायै स्वाहेलान्दायै स्वाहा ॥ इति गोष्ठो वै नामैष लक्ष्मीः स्वे वा एतद् गोष्ठे यजमानो भ्रातृव्यस्य पशून् वृङ्क्त एतैर् वै ते ता अवृञ्जत तैर् एवैना वृङ्क्ते संशृङ्गी भवति पशूनां परिगृहीत्यै यो वै चक्षुषो विभक्तिं वेद चक्षुष्मान् ह भवति नैनं चक्षुर् जहाति यद् दिवा पश्यामस् तद् देवानां चक्षुषा पश्यामो ऽसौ वा आदित्यो देवानां चक्षुः पश्यन् ह वै देवत्रा करोति प्र देवयानं पन्थां जानाति य एवं वेद यज् ज्योत्स्नायां पश्यामस् तत् पित्πणां चक्षुषा पश्यामश् चन्द्रमा वै पित्πणां चक्षुर् न ह वा एनम् अमुष्मिंल् लोके चक्षुर् जहाति प्र पितृयाणं पन्थां जानाति य एवं वेद यत् तमिस्नायां पश्यामस् तन् मनुष्याणां चक्षुषा पश्याम एतावद् वाव नः स्वं चक्षुर् न ह वा एनम् अस्मिंल् लोके चक्षुर् जहाति सर्वम् आयुर् एति य एवं वेद यद् अग्नेर् अन्ते पश्यामस् तद् असुराणां चक्षुषा पश्याम उच् च वा एष दीप्यते निस्वरिष्यति दीप्यमानं भ्रातृव्यस्य गृहाद् धरेद् रयिम् एवास्य पुष्टिं हरत्य् आ तु सूर्यस्योदेतोर् जागृयाद् यत् स्वप्नाद् आर्तिम् आर्छेत् तज् जागरितव्यं रयिम् एव पुष्टिम् अनुजागर्ति ॥म्स्_४,२।१॥
निस्वरिष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: नि च रिष्यति।
स्वप्नाद् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।