तं त एतम् अनु जोषं भरामि नेद् एष युष्मद् अपचेतयातै ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते संस्रावभागाः स्थेषा बृहन्ता इति परिधीन् प्रहृत्याभिजुहोत्य् अग्नयो वा एते तान् प्रीणाति ताञ् शमयति भागधेयेन ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यो यतो यज्ञं प्रयुङ्क्ते तत् प्रतिष्ठापयतीति देवा गातुविदो गातुं वित्त्वा गतुम् इत मनसस्पते सुधात्व् इमं यज्ञं दिवि देवेषु वाते धाः स्वाहेत्य् अतो वा अध्वर्युर् यज्ञं प्रयुङ्क्ते तद् एवैनं प्रतिष्ठापयति ॥म्स्_४,१।१४॥
प्रजापतिर् वा एक आसीत् सो ऽकामयत बहुः स्यां प्रजायेयेति स मनसात्मानम् अध्यायत् सो ऽन्तर्वाण् अभवत् स विजायमानो गर्भेणाताम्यत् स तान्तः कृष्णः श्यावो ऽभवत् तस्मात् तान्तः कृष्णः श्याव इव भवति तस्य वा असुर् एवाजीवत् तेनासुनासुरान् असृजत तद् असुराणाम् असुरत्वं स यस् तद् असुराणाम् असुरत्वं वेदासुमान् ह भवति नैनम् असुर् जहाति सो ऽसुरान्त् सृष्ट्वा पितेवामन्यत तेन पितॄन् असृजत तत् पित्πणां पितृत्वं स यस् तत् पित्πणां पितृत्वं वेद पितेव ह समानानां भवति यन्त्य् अस्य पितरो हवं तस्मै पितॄन्त् ससृजानाय दिवाभवत् तेन देवान् असृजत तद् देवानां देवत्वं स यस् तद् देवानां देवत्वं वेद दिवा ह वा अस्मै देवत्रा भवति यन्त्य् अस्य देवा देवहूतिं स देवान्त् सृष्ट्वामनस्यतेव तेन मनुष्यान् असृजत तन् मनुष्याणां मनुष्यत्वं स यस् तन् मनुष्याणां मनुष्यत्वं वेद मनस्वान् ह भवति नैनं मनो जहात्य् उत यद् अतीव वदत्य् अति वा चरति तिष्ठन्ते ऽस्य मनुष्या मनुषे ततो या योनिर् उदशिष्यत सा गौर् अभवद् योनिर् वै नामैषैतद् वा अस्याः प्रत्यक्षं नामाथो आहुः परोक्षम् इति प्र सहस्रं पशून् आप्नोति य एवं वेद तस्यां वै पयः पर्यपश्यंस् तां देवा अदुह्र हरितेन पात्रेणामृतं दुहे ऽमृतं य एवं वेदाथ पितरो ऽदुह्र रजतेन पात्रेण स्वधां दुहे स्वधां य एवं वेदाथ मनुष्या अदुह्र दारुपात्रेणान्नं ववृ दुहे ऽन्नं ववृ य एवं वेदाथासुरा अदुह्रायस्पात्रेण स्नवता सुरां ते ऽस्रवन् स्रवत्य् अस्य भ्रातृव्यो य एवं वेद तस्मात् स्रवता न हस्ता अवनेनिजीत न पिबेद् एते वा अस्या दोहाः सर्वैर् एवास्या दोहैः सर्वैः कामैर् भुङ्क्ते य एवं वेद चत्वारि वै नभांसि देवाः पितरो मनुष्या असुराः सर्वेषु ह वा एतेष्व् अम्भो नभ इव भवति य एवं वेद तां वा अकामयन्त मयि स्यान् मयि स्याद् इति तां देवाः काम्ये ॥ इत्य् आह्वयन् सा वा एनान् अभ्यकामयतोभये ह वा एनं देवमनुष्या अभिकामयन्ते वारुका एनम् आर्त्विज्ये भवन्ति य एवं वेद ॥
मनुषे : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
श्रव्ये ॥ इति मनुष्याः सा वा एनान् अशुश्रूषतोभये ह वा एनं देवमनुष्याः शुश्रूषन्ते पूर्वास्य जनताम् आयतः कीर्तिर् आगछति य एवं वेद ॥
इलान्दे ॥ इति पितरस् तेभ्यो वा अतिष्ठत तिष्ठन्त्य् अस्मिन् पशवो य एवं वेदाथ यथासुरा आह्वयंस् तेभ्यो वा अत्रसद् यं द्विष्यात् तस्य तथा गोष्ठ आह्वयेत् त्रसन्त्य् अस्मात् पशव एतैर् एव जुहुयात् ॥ गोनामैः संशृङ्ग्या गोर् मूर्धन् पशुकामः ॥
त्रसन्त्य् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।