अदित्यास् त्वोपस्थे सादयामि ॥ इतीयं वा अदितिर् अस्याम् एवैनम् असीषदद् वसूनां रुद्राणाम् आदित्यानां सदो ऽसीत्य् एता वा एताम् अग्रे देवताम् अभ्यजयंस् ताभ्य एवैनत् सदः करोति द्यौर् असि जन्मना जुहूर् नाम प्रिया देवानां प्रियेण नाम्ना ध्रुवे सदसि सीदेत्य् एतद् वा आसां प्रियं नाम यद् घृतवत् तद् एवावरुन्द्धे ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञन्यम् इति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ता आज्यं तद् रक्षस्वेति वेदिर् देवेभ्यो ऽपाक्रामत् तां देवा वेदेनाविन्दंस् तद् वेदस्य वेदत्वं स्त्री वेदिः पुमान् वेदो यद् वेदेन वेदिं सम्मार्ष्टि मिथुनत्वाय सन्ततम् आहवनीयात् स्तृणन्न् एति यज्ञस्य सन्तत्यै तं सन्ततम् उत्तरे ऽर्धमासे ऽभियजते वनस्पतीनां वा एष परिवेष्टा यद् उपवेष ऋद्धा अस्य वेशा भवन्ति य एवं वेद पुरस्तात् प्रत्यञ्चम् उपहन्ति तस्मात् प्रतीचीनावसिता वेशाः स्थविमत उपहन्त्य् अनतिवादिन एनं वेशा भवन्ति सर्वस्मै वै यज्ञे क्रीयते सर्पो वा उपवेषो वल्मीक उत्करो यद् उपवेषम् उत्कर उपहन्ति तस्मात् सर्पाणां वल्मीको गृहाः ॥म्स्_४,१।१३॥
यथाहैष : फ़्न् एमेन्देद्। एद्।: यथाहैष।
भुवनम् असि ॥ इति भूतिम् आशास्ते ॥
विप्रथस्व ॥ इति प्रथयत्य् एवैनद् इत इन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्येत्य् अतो हीन्द्रस् तिष्ठन् वीर्यम् अकृणोद् देवताभिः समारभ्य ॥
जुह्व् एह्य् अग्निष् ट्वा ह्वयति देवान् यक्ष्यावो देवयज्यायय् उपभृद् एहि देवस् त्वा सविता ह्वयति देवान् यक्ष्यावो देवयज्यायै ॥ इति न वा एते अविदुषा स्वादाने इव वरुणपाशान् ह्य् आक्रामत्य् एताभिर् एने देवताभिर् आदत्ते वरुणपाशानाम् अनाक्रमाय विष्णोः क्रमो ऽसीत्य् अतिक्रामति यज्ञस्यानवक्रामायोर्ध्वो अध्वरो दिविस्पृग् अह्रुतो यज्ञो यज्ञपतेर् इत्य् ऋजुम् ऊर्ध्वम् आघारम् आघारयति यज्ञस्याहूर्छायेन्द्रवान्त् स्ववान् इति सेन्द्रं यज्ञम् अकृताथो इन्द्रियं तेनावरुन्द्धे ॥
वसुमतस् ते छायाम् उपस्थेषम् ॥ इत्य् अग्निर् वै वसुमान् अग्नेर् एव छायाम् उपतिष्ठत ऋजुम् ऊर्ध्वम् आघारम् आघारयेत् प्राणो वा आघारः सर्वम् आयुर् यजमान एति यं द्विष्यात् तस्याघार्य कृधु छिन्द्यात् प्राणम् अस्य छिनत्ति ताजक् प्रमीयते शिरो वा एतद् यज्ञस्य यद् आघार आत्माज्यं यद् आघारम् आघार्योपभृता समञ्ज्याञ् शिरो यज्ञस्य प्रछिन्द्याद् आज्यधान्या समनक्ति ॥ समक्तम् अग्निना हविः समक्तं हविषा घृतम् ॥ इत्य् आत्मन् यज्ञस्य शिरः प्रत्यधाद् अथो मन एव यज्ञे प्रतिदधाति स्तनं स्तनिनीः प्रजा उपजीवन्ति किम् अस्तना इति ब्रह्मवादिनो वदन्त्य् अप्तुभी रिहाणा व्यन्तु वया इत्य् एतद् वाव ता उपजीवन्ति वशा पृश्निर् भूत्वा मरुतो गछेति मरुतो वै वृष्ट्या ईशते ते ऽस्मै वृष्टिं निनयन्ति ततो नो वृष्ट्यावतेति मरुद्भ्य एव वृष्टिं वनुते चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीति चक्षुर् एवास्य पाति श्रोत्रपा अग्ने ऽसि श्रोत्रं मे पाहीति श्रोत्रम् एवास्य पाति तनूपा अग्ने ऽसि तन्वं मे पाहीति तन्वम् एवास्य पाति यन् मे अग्न ऊनं तन्वस् तन् मा आपृणेत्य् आशिषम् एवाशास्ते ॥
यं परिधिं पर्यधत्था अग्ने देव पणिभिर् वीयमानः ।