अनिशिताः सपत्नक्षयणीः । इत्य् अनिशिता ह्य् एताः सपत्नक्षयणीः स्रुवं सम्मार्ष्टि पुमांसं वा आसां तद् अग्रे संश्यत्य् अथ जुह्वम् अथोपभृतम् अथ ध्रुवाम् असा आदित्यः स्रुवो द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवेमान् वा एतल् लोकान् यथापूर्वं सम्मार्ष्ट्य् एभ्यो लोकेभ्य आत्मानं परिदत्ते ऽहिंसायै जुह्वम् अग्रे सम्मार्ष्ट्य् आत्मा वै जुहूर् आत्मानम् एवोपैत्य् अथोपभृतं प्रजा वा उपभृत् प्रजाम् एवोपैति परेव ह्य् आत्मनः प्रजाथ ध्रुवां पशवो वै ध्रुवा पशून् एवोपैति पर इव हि प्रजायाः पशवो यद् उत्तानाः सम्मृज्याद् अप्रतिष्ठायुकं रेतः स्याद् यन् नीचीर् अप्रतिष्ठायुकं रेतः स्यात् तिरश्चीः सम्मार्ष्टि तिर्यग् वै रेतः सिच्यते प्रतिष्ठायुकं रेतो भवति यद् अग्रेण मुखं दण्डं च सम्मृज्याद् रक्षोभ्यश् चाभुवेभ्यश् च समदं दध्याद् अग्रेण मुखं सम्मार्ष्टि जघनेन दण्डं न रक्षोभ्यश् चाभुवेभ्यश् च समदं दधात्य् अन्तरतो जुह्वं प्राचीं सम्मार्ष्टि बहिष्टात् प्रतीचीं बहिष्टाद् उपभृतं प्राचीम् अन्तरतः प्रतीचीं सर्वतः समाहार्य ध्रुवां प्राणान् एवास्य यथापूर्वं कल्पयति यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्योपभृच् चतुर् गृह्णञ् जुह्वां भूया आज्यं गृह्णात्य् अष्टौ गृह्णन्न् उपभृति कनीय उपस्तिं भ्रातृव्यम् अकृत ॥म्स्_४,१।१२॥
आत्मानं : फ़्न् एमेन्देद्। एद्।: आत्मान।
समाहार्य : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
बह्वीर् आसादयेद् यावतीर् वै प्रोक्षणीर् आसादयति तावतीर् अस्यामुष्मिंल् लोक आपस् तस्माद् बह्वीर् आसाद्या अग्नेर् मेध्यो ऽपाक्रामत् स कृष्णो भूत्वा वनस्पतीन् प्राविशद् यद् आह कृष्णो ऽस्य् आखरेष्ठा अग्नये घृतं भवेति तम् एव मेधम् अवरुन्द्धे वेदिर् असि बर्हिषे त्वा जुष्टं प्रोक्षामीति प्रजा वै बर्हिः पृथिवी वेदिर् अस्यां वा एतत् प्रजा स्वगाकरोति यद् उपरिष्टात् प्रोक्ष्याधस्तात् प्रोक्षति तस्माद् उपरिष्टाद् वृष्टाद् अधस्ताद् ओषधयो जायन्ते ।
ऊर्जा पृथिवीं यछत । इत्य् अस्याम् ऊर्जम् अधात् तस्माद् इमां प्रजा उपजीवन्ति विष्णोः स्तुपो ऽसीति मुखतः प्रस्तरं गृह्णाति मुख्यम् एनं तेन शीर्षण्यं करोति यावद् धस्तेन पर्याप्नुयात् तावन्तं गृह्णीयाद् अक्षोधुको यजमानो भवति नोर्ध्वम् उन्मृज्याद् यद् अस्य वित्तं वेद्यं तत् प्रमृज्यान् नावाचीनम् अवमृज्याद् यद् एनम् आगमिष्यत् तत् प्रतिनुदेत न विधूनुयात् प्रजां पशून् विधूनुयाद् यद् उपतिष्ठेत् तद् उपसङ्गृह्णीयाद् यथाशितायोपचिनोत्य् एवम् एव तद् दक्षिणतः शुल्बं स्तृणाति तस्माद् दक्षिणतो नीवीर् उरु प्रथस्वोर्णम्रदम् इति प्रथयत्य् एवैनत् स्वासस्थं देवेभ्या इति देवेभ्य एवैनत् करोति प्रस्तरं धारयन् परिधीन् परिदधाति स्वयं वा एतद् यजमान आत्मानं परिधत्ते ऽहिंसायै न पुरस्तात् परिदधात्य् उद्यन् वा असा आदित्यो रक्षांस्य् अपाहतोद्यन्न् एवास्मा असा आदित्यो रक्षांस्य् अपहन्त्य् ऊर्ध्वे समिधा आदधात्य् उपरिष्टाद् अस्मात् तेन रक्षांस्य् अपहन्ति द्वे आदधाति मिथुनत्वाय विधृती स्था इति विधृती एवैने करोति ॥