११

ये यजामहे ॥ इत्य् आज्यधानीं वषट्कारेण स्रुवं जुह्वा अधि ध्रुवाम् अभिघारयति ध्रुवाया अधि जुह्वम् असौ ह्य् अस्यै प्रयच्छतीयम् अमुष्यै सन्ततम् अस्मा अन्नाद्यम् अव्यवछिन्नं प्रदीयते ऽस्मिंस् च लोके ऽमुष्मिंश् च पूर्वास्य जनतामायतः कीर्तिर् आगछति य एवं वेद ॥म्स्_४,१।११॥

घृतं च वै मधु च प्रजापतिर् आसीद् यतो मध्व् आसीत् ततः प्रजा असृजत तस्मान् मधोः प्रजाननम् अस्ति तस्मान् मधुना न प्रचरन्ति यातयामं हि तद् आज्येन प्रचरन्त्य् अयातयामं वा एतत् प्राजापत्यं घृतम् अयातयामा देवानां प्रजापतिर् गार्हपत्ये ऽधिश्रयति पत्न्य् अवेक्षते ऽन्वारम्भो वा एष यज्ञस्य पत्न्या यज्ञम् एनाम् अन्वारम्भयत्य् अथो यत् पत्नी यज्ञे करोति मिथुनं वा एतत् क्रियते प्रजात्यय् अमेध्यं वा एतद् अयज्ञियं यत् पत्न्य् अवेक्षत आहवनीये ऽधिश्रयति पुनात्य् एवैनान् मेध्यम् एनद् यज्ञियं करोति स्फ्यस्य वर्त्म सादयति रक्षसाम् अपहत्यै देवस् त्वा सवितोत्पुनात्व् इति सवितृप्रसूत एवैनद् उत्पुनाति हविर् असि वैश्वानरम् इति द्वादशैता व्याहृतयो द्वादश मासाः संवत्सरः संवत्सरेण वा एतत् तेज इन्द्रियं वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्त उभयतो वैश्वानरं भवत्य् उभयतो वैश्वानरं ह्य् एतन् निष्टेजा अस्य निर्वीर्यो भ्रातृव्यो जायते ऽथो मृध्रतर एव भवति देवाश् च वा असुराश् च संयत्ता आसन् स इन्द्र एतम् अवकाशम् अपश्यत् तेनासुरान् अभ्यभवद् अभि भ्रातृव्यं यज्ञेन भवति य एवं विद्वान् यजत आज्येनान्यानि हवींष्य् अभिघारयन्ति केनाज्यम् इति ब्रह्मवादिनो वदन्ति सत्येन वा आज्यम् अभिघृतं यद् आह सत्येन त्वाभिघारयामीति चक्षुर् वै सत्यं चक्षुर् यजमानः प्रदधाति सम्मील्यैतद् यजुर् वदति न चक्षुः प्रदधात्य् आज्यं वै यज्ञो यज्ञस् विष्णुः ॥

इदं विष्णुर् विचक्रमे त्रेधा निदधे पदा ।
समूढम् अस्य पांसुरे ॥ इति यद् ओदनपचने ऽधिश्रित्याथ गार्हपत्ये ऽथाहवनीये ऽधिश्रयत्य् एतद् वाव तत् त्रिर् विष्णुर् विक्रमते प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै स्रुचः सम्मार्ष्टि पुनात्य् एवैना मेध्या एना यज्ञियाः करोति ॥