अररुस् ते द्यां मा पप्तत् ॥ इत्य् अररुर् वै नामासुर आसीत् स पृथिवीम् उपम्रुच्याशयत् तम् इन्द्रो ऽचायत् तम् अपाररुं पृथिव्या अदेवयजनम् इत्य् अपाहन् स दिवम् अपिपतिषत् तम् ॥ अररुस् ते द्यां मा पप्तत् ॥ इति दिवः प्रत्यनुदत य एवं विद्वां स्तम्बयजुर् हरत्य् एभ्यो वा एतल् लोकेभ्यो यजमानो भ्रातृव्यं निर्भजति त्रिः कृत्वो हरति त्रयो वा इमे लोका एभ्य एव लोकेभ्यो भ्रातृव्यं निर्भजति तूष्णीं चतुर्थं हरति यो लोको निरुक्तो ऽपरिमितस् तस्माद् भ्रातृव्यं निर्भजत्य् असुराणां वा इयं पृथिव्य् आसीत् ते देवा अब्रुवन् दत्त नो ऽस्याः पृथिव्या इति ते वै स्वयम् एव ब्रूध्वम् इति ततो वै वसवः प्राचीं दिशम् उदजयन् रुद्रा दक्षिणाम् आदित्याः प्रतीचीं मरुता उदीचीं ततो वै देवा इमाम् असुराणाम् अविन्दन्त ततो देवा असुरान् एभ्यो लोकेभ्यो निरभजंस् ततो देवा अभवन् परासुरा यद् एवम् एताभिर् देवताभिर् वेदिं परिगृह्णातीमां वा एतद् यजमानो भ्रातृव्यस्य वृङ्क्ते ऽस्या भ्रातृव्यं निर्भजति भवत्य् आत्मना परास्य भ्रातृव्यो भवति पृथिव्या वै मेध्यं चामेध्यं च व्युदक्रामत् प्राचीनम् उदीचीनं मेध्यम् उदक्रामद् दक्षिणा प्रतीचीनम् अमेध्यं प्राचीम् उदीचीं वेदिं प्रवणां कुर्यान् मेध्यान् एनान् यज्ञियान् करोत्य् अथो यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयत्य् अथो मेध्यस्य चैवामेध्यस्य च व्यावृत्त्यै प्राञ्चौ बाहू नयत्य् आहवनीयं तेन परिगृह्णाति प्रतीची श्रोणी गार्हपत्यं परिगृह्णाति मूलं वै रक्षांस्य् अनूत्पिबन्ति यन् नखेन छिन्द्यात् कुनखी स्यात् स्फ्येन छिनत्ति वज्रो वै स्फ्यो वज्रेणैव रक्षांसि हन्ति ॥म्स्_४,१।१०॥
यो वै स्रुचां योगम् अविद्वान् अध्वर्या इति हूतः प्रतिशृणोत्य् आ देवताभ्यो वृश्चते ऽपशुर् भवत्य् अथ यः स्रुचां योगं विद्वान् अध्वर्या इति हूतः प्रतिशृणोति न देवताभ्या आवृश्चते पशुमान् भवति द्यौर् जुहूर् अन्तरिक्षम् उपभृत् पृथिवी ध्रुवा दिश आज्यधान्य् असा आदित्यः स्रुवः स यत् ॥ ॐ श्रावय ॥ इत्य् आह जुह्वं तेन युनक्ति ॥
अस्तु श्रौषट् ॥ इत्य् उपभृतम् ॥
यज ॥ इति ध्रुवाम् ॥