०९

प्रति प्रथस्व पृथिवीम् उत द्याम् ॥ इतीमे एव प्रथयति घर्मो वा एषो ऽर्धमासेऽर्धमासे प्रवृज्यते स ईश्वरो ऽशान्तस् तेजसा यजमानस्य पशून् निर्दहो यत् पर्यग्निं करोति पशुम् एव करोति शान्त्या अनिर्दाहाय त्रिः पर्यग्निं करोति त्रयो वा इमे लोका एभ्य एवैनं लोकेभ्यः शमयति पुरोडाशं वा अधिश्रितं रक्षांस्य् अजिघांसन् स नाको नाम दिवि रक्षोहाग्निः सो ऽस्माद् रक्षांस्य् अपाहन् यद् आह देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या इति रक्षसाम् अपहत्यै शिरो वा एतद् यज्ञस्य यत् पुरोडाशः केशा वेदो यथा शीर्ष्णः कपालान्य् एवं कपालानि यथा मस्तिष्क एवं पुरोडाशः सुशृतः कार्यो मेध्यत्वाय यत् पुरोडाशं नाभिवासयेद् आविर् मस्तिष्कः स्याद् यद् अभिवासयति तस्माद् गुहा मस्तिष्कस् त्वचं ग्राहयति तस्मान् मस्तिष्कः परिततो भस्मनाभ्य्·हति तस्मान् मांसेनास्थि छिन्नं ज्वालैर् अभिवासयति तस्मात् केशैः शिरश् छिन्नं यत् त्वचम् अग्राहयित्वा भस्मनाभिवासयेत् पलितम्भावुको ऽध्वर्युः स्याद् ज्वालैर् अभिवासयत्य् अपलितम्भावुको ऽध्वर्युर् भवति ते वै देवास् तं नाविन्दन् यस्मिन् यज्ञस्य क्रूरम् आर्क्ष्यामहा इति सो ऽग्निर् अब्रवीद् अहं वस्तं जनयिष्यामि यस्मिन् यज्ञस्य क्रूरम् आर्क्षध्वा इति सो ऽपो ऽङ्गारेणाभ्यपातयत् तत एकतो ऽजायत द्वितीयं ततो द्वितस् तृतीयं ततस् त्रितो यद् अद्भ्यो ऽधिनिरमिमीत तद् आपेयानाम् आपेयत्वं यद् आत्मनो ऽधिनिरमिमीत तद् आत्मेयानाम् आत्मेयत्वम् अन्तर्वेदि जुहोति तद् एवावरुन्द्ध उपरिष्टाद् अभिघारयति शृतत्वाय शृतकामा हि देवास् ते देवा अतिमृजाना आयन् सूर्याभ्युदिते ते ऽमृजत यं सुप्तं सूर्यो ऽभ्युदेति सूर्याभ्युदितः सूर्याभिनिम्रुक्ते सूर्याभिनिम्रुक्तः श्यावदति श्यावदन् कुनखिनि कुनख्य् अग्रेदधुष्य् अग्रेदधुः परिवित्ते परिवित्तः परिविविदाने परिविविदानो वीरहणि वीरहा भ्रूणहनम् एनो नात्येति ॥म्स्_४,१।९॥
पुरोडाशं : फ़्न् एमेन्देद्। एद्।: परोडाशम्।
भस्मनाभिवासयेत् : फ़्न् एमेन्देद्। एद्।: भस्मनाभिवासयेत्।

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनं देवताभिर् आदत्ते सहस्रभृष्टिः शततेजा इति वज्रं वा एतत् संश्यति भ्रातृव्याय प्रहरिष्यन् पृथिवि देवयजनि मा हिंसिषं ता ओषधीनां मूलम् इत्य् ओषधीनाम् अहिंसायै व्रजं गछ गोस्थानम् इति छन्दांसि वै व्रजो गोस्थानश् छन्दांस्य् एवास्मै व्रजं गोस्थानं करोति वर्षतु ते पर्जन्या इति पर्जन्याद् एव वृष्टिं वनुते बधान देव सवितः शतेन पाशैः परमस्यां परावतीति द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव बध्नाति परमस्यां परावति यो अस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अत्र बधान सो ऽतो मा मोचीत्य् आशिषम् एवाशास्ते द्रप्सस् ते दिवं मा स्कान् इति यो वा अस्या रसः स द्रप्सस् तम् इमं प्रजा उपजीवन्ति तम् अस्यां यछत्य् अस्कन्दाय ॥