०८

पूष्णस् तान्य् अपि व्रत इन्द्रवायू विमुञ्चताम् ॥ इति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते ॥म्स्_४,१।८॥

देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां संवपामीति सवितृप्रसूत एवैनां देवताभिः संवपति पवित्रवत् संवपति हविः करोति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अप उपसृजत्य् अमृतं वा आपो ऽमृतम् एव हविः करोति सम् आपा ओषधीभिर् गछन्तां सम् ओषधयो रसेन सं रेवतीर् जगतीर् इत्य् अन्या वा एतासाम् अन्या जिन्वन्त्य् आपा ओषधीर् जिन्वन्त्य् ओषधीर् अपः शिवाः शिवाभिः समसृक्षतापा इत्य् आपो वै रेवतीर् ओषधयो मधुमतीः पशवो जगतीर् अप ओषधीः पशूंस् तान् अस्मै संसृज्यैकधा मधुमतः करोति ॥

मखस्य शिरो ऽसि ॥ इत्य् आह यज्ञो वै मखस् तस्य वा एतञ् शिरः क्रीयते सीदन्तु विशो जनयत्यै त्वेति मिथुनम् एव करोति घर्मो ऽसि विश्वायुर् घर्म घर्मे श्रयस्वोरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इति प्रथयत्य् एवैनं ॥