०७

सुविचा विविच्यध्वम् ॥ इत्य् आशिषम् एवाशास्ते सुफलीकृतान् कुर्यान् मेध्यान् एनान् यज्ञियान् करोति त्रिः फलीकरोति त्रिषत्या हि देवा अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते ऽदित्याः स्कम्भो ऽसीति शम्याम् उपदधातीमे वै सहास्तां ते शम्यामात्रंशम्यामात्रं व्यैतां यञ् शम्याम् उपदधात्य् अनयोर् एव विधृत्यै धान्यम् असि धिनुहि देवान् इत्य् एतस्य वै यजुषो वीर्येण यावद् एका देवता कामयते यावद् एका तावद् अस्या आहुतिः प्रथते प्रथते प्रजया पशुभिर् य एवं वेद प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणम् अपानं व्यानं तान् यजमाने दधाति दीर्घाम् अनु प्रसृतिं संस्पृशेथाम् आयुषे वा इत्य् आयुर् अस्मिन् दधाति मित्रस्य वश् चक्षुषावेक्षा इति मित्रम् एवैनान् कुरुते देवो वः सविता हिरण्यपाणिर् उपगृह्णात्व् इति सवितृप्रसूत एवैनान् उपगृह्णाति ॥म्स्_४,१।७॥

निर्दग्धं रक्षा इति रक्षसाम् अपहत्यै यद् अधस्ताद् अङ्गारम् उपवर्तयत्य् अस्मिंस् तेन लोके ज्योतिर् धत्ते यद् उपरिष्टाद् अन्तरिक्षे तेनासा अस्मा आदित्यो ऽमुष्मिंल् लोके ज्योतिर् भवत्य् अथो दिवैवास्मा अमुष्मिंल् लोके भवति सर्वे ऽस्मा इमे लोका ज्योतिष्मन्तो भवति य एवं वेद त्रीणि समीचीनान्य् उपदधाति त्रयो वा इमे लोका एषां लोकानां धृत्यय् अपाग्ने ऽग्निम् आमादं जहीति य आमात् क्रव्यात् तम् अपहत्य देवयजने यज्ञिया उपदधाति ध्रुवम् असि पृथिवीं दृंहेति पृथिवीम् एव दृंहति धरुणम् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षम् एव दृंहति ध्रत्रम् असि दिवं दृंहेति दिवम् एव दृंहति धर्मासि विश्वा विश्वानि दृंहेति दिश एव दृंहति प्रजापतिर् वै यत् समभवत् स एतावञ्श एव समभवद् एकं वा अग्रे शीर्ष्णः कपालं सम्भवत्य् अथ द्वितीयम् अथ तृतीयम् अथ चतुर्थम् अथ पञ्चमम् अथ षष्ठम् अथ सप्तमम् अथाष्टमं यद् अष्टा उपदधात्य् आत्मानं वा एतद् यजमानः संस्कुरुते तं संस्कृतम् अमुष्मिंल् लोके ऽनुपरैति यद् अष्टा उपदधाति गायत्रीं तेन छन्द आप्नोति यद् एकादश त्रिष्टुभं तेन यद् द्वादश जगतीं तेनाथो सर्वाण्य् एव छन्दःसम्मितान्य् उपदधाति ॥

चितः स्थ परिचितः स्थ ॥ इति यजुष्मन्ति करोति वसूनां रुद्राणाम् आदित्यानां भृगूणाम् अङ्गिरसां घर्मस्य तपसा तप्यध्वम् इति एतासाम् एनानि देवतानां तपसा तपति ॥

यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः ।