०६

हविष्कृद् एहि ॥ इति यो देवानां हविष्कृत् तं ह्वयति त्रिर् ह्वयति त्रिषत्या हि देवा मनोर् वै श्रद्धादेवस्य यजमानस्यासुरघ्नी वाग् यज्ञायुधानि प्रविष्टासीत् तस्या वदन्त्या यावन्तो ऽसुरा उपाशृण्वंस् तावन्तस् तद् अहर् नाभवन्न् एवं विद्वान् ब्राह्मणो भ्रातृव्याणां मध्ये ऽवसाय यजेत यावन्त एवास्य भ्रातृव्या यज्ञायुधानाम् उपशृण्वन्ति तेषां तेज इन्द्रियं वीर्यं वृङ्क्ते कुटरुर् असि मधुजिह्वस् त्वया वयं सङ्घातंसङ्घातं जेष्मेति सङ्घातंसङ्घातं वावैतेन यजमानो भ्रातृव्यं जयतीषम् आवदोर्जम् आवद रायस्पोषम् आवदेत्य् आशिषम् एवाशास्ते ॥म्स्_४,१।६॥

वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्व् इति प्रतिष्ठित्यय् अस्ना वै देवाः पशुभ्यो रक्षांसि निरवादयन्त तुषैर् ओषधीभ्यो यद् आह परापूतं रक्षः परापूतारातिर् इत्य् एतावतैव यज्ञस्य रक्षांसि निरवदयते ॥

देवो वः सविता विविनक्तु ॥ इति सवितृप्रसूत एवैनान् विविनक्ति ॥