अग्ने हव्यं रक्षस्व ॥ इति पुर उपसादयत्य् अग्निर् एव हव्यं रक्षते ॥म्स्_४,१।५॥
विष्णोर् मनसा पूते स्थः ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैने पुनाति देवो वः सवितोत्पुनात्व् इति सवितृप्रसूत एवैना उत्पुनात्य् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै प्रोक्षति तस्या एनान् जुष्टान् करोति यद् वो ऽशुद्ध आलेभे तञ् शुन्धध्वम् इति शुन्धत्य् एवैनान्य् अदित्यास् त्वग् असीतीयं वा अदितिर् अस्या एवैनत् त्वचं करोत्य् अवधूतं रक्षा इति रक्षसाम् अपहत्यै प्रतीचीनग्रीवं कृष्णाजिनम् उपस्तृणाति तस्मात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते पृथुग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोत्य् अग्नेर् जिह्वासि वाचो विसर्जनम् इत्य् अग्नेर् ह्य् एषा जिह्वा वाचो विसर्जनं यदा हि पशवा ओषधीनाम् अश्नन्त्य् अथ वाचं विसृजन्त आयुषे वा इत्य् आयुर् यजमाने दधाति बृहद्ग्रावासि वानस्पत्य इति ग्रावाणम् एवैनत् करोति देवेभ्यो हव्यं शमीष्वेति देवेभ्य एवैनत् करोति ॥
अपहतं रक्षः ॥ इति रक्षसाम् अपहत्यै ॥