यो वै श्रद्धाम् अनालभ्य यजते नास्य देवमनुष्या इष्टाय श्रद्दधत्य् अपः प्रणयत्य् आपो वै श्रद्धा श्रद्धाम् एवालभ्य यजत आपो यज्ञो यज्ञं तत्वा प्रचरत्य् आपो देवानां प्रियं धाम देवानां प्रियं धाम प्रणीय प्रचरत्य् आपः सत्यं सत्यम् एवालभ्य यजत आपो रक्षोघ्नीर् रक्षसाम् अपहत्यय् आपो वज्रो वज्रं भ्रातृव्याय प्रहरति स्तृत्यय् आपः श्रद्धा श्रद् धास्य देवाः श्रन् मनुष्या इष्टाय दधते यस्यैवं विदुष एवं विद्वान् अपः प्राणयति देवीर् आपो ऽग्रेगुवा इति यज्ञम् एव प्रणयति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्याम् आददा इति सवितृप्रसूत एवैनद् देवताभिर् आदत्त उर्व् अन्तरिक्षम् इति समिष्ट्या एव प्रत्युष्टं रक्षा इति रक्षसाम् अपहत्यै धूर् असि ध्वर ध्वरन्तम् इति धुर्यो वै नामैषो ऽग्निर् यद् अनालभ्यातीयाद् यजमानं शुचार्पयेद् द्वौ वाव पुरुषस्य भ्रातृव्यौ यं द्वेष्टि यश् चैनं द्वेष्टि ता एव शुचार्पयति ॥म्स्_४,१।४॥
देवानाम् असि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् इति देवेभ्य एवैनद् वह्नितमं सस्नितमं पिप्रितमं जुष्टतमं देवहूतमं करोत्य् अह्रुतम् असि हविर्धानं दृंहस्व मा ह्वार् इति दृंहत्य् एवैनद् विष्णोः क्रमो ऽस्य् उरु वातायेति यद् वै किञ्च वातो नाभिवाति तद् वरुणस्यावरुण्यम् एवैनत् करोति मित्रस्य वश् चक्षुषा प्रेक्षा इति मित्रम् एवैनान् कुरुते ॥
ऊर्जं गृह्णीत ॥ इत्य् ऊर्जं यजमाने दधाति ॥
प्रभूत्यै वः ॥ इति प्रैवैनान् भावयति देवस्य वः सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां यछन्तु पञ्च गोपीथाय वो नारातये ऽग्नये वो जुष्टान् निर्वपामीति सवितृप्रसूत एवैनान् देवताभिर् निर्वपति यछन्तु पञ्चेति पञ्च वा ऋतव ऋतून् वा एतत् प्रीणाति ते ऽस्मै प्रीताः कल्पन्ते गोपीथाय वो नारातया इति रक्षसाम् अपहत्यय् अग्नये वो जुष्टान् इत्य् अग्नय एवैनान् जुष्टान् करोत्य् अथो यस्यै देवतायै निर्वपति तस्या एनान् जुष्टान् करोतीदं देवानाम् इदम् उ नः सहेति व्यावृत्त्यै दृंहन्तां दुर्या इति हविषो गृहीताद् इमे लोका उदवेपन्त तान् देवा एतेन यजुषादृंहन् यद् एतद् यजुर् वेदत्य् एषां लोकानां धृत्यै निर् वरुणस्य पाशाद् अमुक्षीति वरुणपाशाद् एव निर्मुच्यत आत्मनो ऽहिंसायै स्वर् अभिव्यक्शम् इति तम इव वा एष प्रपद्यते परीणहं स्वर् एवाभिविपश्यति ज्योतिर् वैश्वानरम् इत्य् असौ वा आदित्यो ज्योतिर् वैश्वानरम् ॥
उर्व् अन्तरिक्षम् अन्वेमि ॥ इति यद् वीहीति ब्रूयाद् व्यायुको ऽध्वर्युः स्यात् ॥
उर्व् अन्तरिक्षम् अन्वेमि ॥ इत्य् अव्यायुको ऽध्वर्युर् भवत्य् अदित्या व उपस्थे सादयामीतीयं वा अदितिर् अस्याम् एवैनान् असीषदत् ॥